SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शिल्परले [पूर्वभागः पुष्पैश्च धूपदीपैश्च बलिभिश्च महाहणैः। त्वं च त्वद्देहसंस्थाश्च पूज्याः स्युर्देवताः क्रमात् ॥ २४ ॥ एवं मयैव विहितं कुर्वता वास्तुपूजनम् । तदायतनवेश्मादौ वसतां सन्तु संपदः ॥ २५ ॥ अकृत्वा (वा)स्तुयजनं प्रासादभवनादिकम् । कृतं तदासुरं सर्व भूयात् तत्र च यत् कृतम् ॥ २६ ॥ इति दत्त्वा वरं देवः शुक्रवास्तुपयोः समम् । वस्तुं देवान् नियुज्यास्मिन् तत्रैवान्तरधीयत ।। २७ ।। यद्देशदिङ्मुखं शंभोः पादयोः पतितोऽसुरः । शुक्रेण देवैरुषितस्तथैवाभूद् विभोवरात् ॥ २८॥ तथैवाधोमुखोऽद्यापि वास्तुरीशानदिक्छिरः ॥ २८३ ।। ईशे तस्य शिरस्तदा विनिहितः पादौ निर्ऋत्यां स्थितौ वायव्ये च हुताशने च भुजयोः पद्यां तथा कूपरे। क्षिप्तं वक्षसि हस्तयोस्तलमिति प्रोक्ता च तस्य स्थिति__स्तस्याङ्गेषु च देवता विनिहिताः प्रोक्ताः कमात् सूरिभिः।। तस्येशः शिरसि स्थितश्च नयने सव्ये तथा दक्षिणे पर्जन्यश्च तथा दितिश्च वदने चापः पुनः संस्थितः । भूयस्तस्य च कन्धरे विनिहितः स्यादापवत्सस्तथा पश्चात् तस्य तथांसयोर्विनिहिते स्यातां जयन्तादिती॥ ३० ॥ भूयो महेन्द्रप्रमुखार्गलाद्याः संस्थापिताः स्युर्भुजयोः क्रमेण। सावित्ररुद्रौ सवितेन्द्रजिच भूयः प्रकोष्ठद्वयसंस्थिताः स्युः ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy