________________
वास्तुपूजा]
सप्तमोऽध्यायः । मो भैर्भार्गव! तुष्टोऽहं नयबुद्धयानया तव । अत्रोषितोऽसि पुत्रो मे निर्गच्छ स्वेच्छया ह्यतः ॥ १४ ॥ अग्रयग्रहपदं दत्तं तथैश्वर्य महत् तव । अथ शुक्रः प्रणम्येशं विज्ञाय जगदीश्वरम् ॥ १५ ॥ कृतार्थोऽनुगृहीतोऽस्मि मत्तोऽन्यः कोऽधुना कृती। इत्युक्तः प्रणतं प्रीतः शुक्रं वकेन्दुशेखरः॥ १६ ॥ तुष्टोऽस्मि वरयाभीष्टं वरं शुक्र! प्रियोऽसि मे । सोऽपि ववे वरं तत्र तच्छागदनुजं पुरः ॥ १७ ॥ पुरारेः पातयन् पद्भ्यामभयस्तस्य वाञ्छितः । अथाधोवदनं दैत्यं दण्डवत् पतितं क्षितौ ॥ १८ ॥ प्राह प्रसन्नवदनः सर्व दद्मि वरं च यत् । वाञ्छितं छाग! तत् तुभ्यमित्युक्तः प्राह शङ्करम् ॥१९॥ त्वदनिष्टं यदज्ञानान्मयेश! दुरनुष्ठितम् । क्षन्तुमर्हसि तत् क्षमायां वसिष्ये त्वत्प्रसादतः ॥ २० ॥ अविरोधेन देवानां वरमेतत् प्रयच्छ मे। मयि ब्रह्मादयो देवा वसन्तः सन्तु पूजिताः ॥ २१ ॥ श्रुत्वैतच्छूलहस्तोऽपि प्राह वस्तुं वरं त्वया । याचितो यत् ततो नाम्ना वास्तुपोऽसि तथास्तु ते ॥२२॥ अद्यप्रभृति भूलोके दैवं वान्यच्च मानुषम्। कुर्वन्तो वास्तु वासार्थ प्रथमं त्वां यजन्तु ते ॥ २३ ।।
१. 'म' क.
पाठः,