________________
शिल्परने
पूर्वभागः
भूमि दिवं च सजराद्यतैरेवाभोगवर्षणा (?) । उपतिष्ठन्मुनिश्रेष्ठं किंकरोमीति चाब्रवीत् ॥ ४ ॥ तमाबभाषे भृगुजो जृम्भमाणं भयानकम् । विबुधानबुधप्रज्ञान भ्रंशयाशु त्रिविष्टपात् ॥ ५ ॥ इत्युक्तस्तर्जयन् नादैनिर्गच्छन् स्वमुखानले । - निर्दहन्निव लोकांस्त्रीन् निर्जरानभ्यधावत ॥ ६ ॥ ऋभवोऽषि भयात् तस्य विभावैर्धेशितैः स्वकैः । अभिजग्मुर्विभुं शम्भुं भवं भूतिविभूषणम् ॥ ७ ॥ भवोऽप्यभयदस्तेषां भार्गवाभिभवाद् भृशम् । भग्नानां भूतयेऽथाक्ष्णस्तृतीयादग्निमुत्थितम् ॥ ८ ॥ आदिशद् भूतरूपं तं भस्मीकृत्य भृगोः सुतम् । ततश्छागासुरं क्रूरं प्रवृद्ध दग्धुमर्हसि ॥९॥ इत्युक्तः क्व गतोऽसीति वह्निर्मुद्राव भार्गवम् । विप्रद्रुतो भयात् सोऽपि बभ्राम भुवनत्रयम् ॥ १० ॥ रक्षितारमदृष्टान्यमृते भसितभूषणात् । ततस्तनीयसीं कृत्वा तनुं वां योगशक्तितः ॥११॥ विवेश शर्मणे शंभोः श्रवणेन शिवान्तरम् । स तस्योदरमाविश्य शङ्करस्य शिवङ्करम् ॥ १२ ॥ ददर्श च जगद्विश्वं + + + विश्वतश्वसत् । देवोऽपि दिव्यदर्शित्वान्निशाम्य स्वोदरेऽसुरम् ॥ १३ ॥
१. 'र'
ख. पाठः.