________________
वास्तुपूजा]
षष्ठोऽध्यायः। ततो दिक्षु च चत्वारि षट्पदेष्वार्यकादयः । तत्राष्टौ द्विपदस्थाः स्युः कोणे सावित्रकादयः ।। ४६ ॥ ईशानाद्याः पदैकस्थाः सर्वमन्यद् यथापुरम् ॥ ४६३ ॥ एवं पङ्क्तिकृतिप्रभिन्नपदके ब्रह्मा पदे षोडशे मध्ये तत्र बहिः पदाष्टकगता दिक्ष्वार्यकाद्याः क्रमात् । सावित्रादिकदेवताश्च द्विपदस्थाप्याश्च पूर्वक्रमा- . दीशानप्रमुखाश्च पूर्ववदिदं स्थानं पदे चासने ॥ ४७३ ।।
इन्द्रकान्तपदं यावत् तावन्निश्चितबुद्धिमान् ॥ १८ ॥ एवं समूहयेत् तत्र तत्र दैवतनिर्णयम् । समानि यानि कोष्ठानि चतुष्षष्टिवदिष्यते ॥ १९ ॥ असमानि यानि तान्येवमेकाशीतिवदिष्यते। ब्रह्माणं तु निरीक्ष्यते स्थितास्तत्तत्पदेऽमराः ॥५०॥
इति शिल्परत्ने पदविन्यासो नाम
षष्ठोऽध्यायः ।
अथ सप्तमोऽध्यायः।
अथ वास्तुपूजा। पुरा सुरासुरे युद्धे पुरन्दरमुखैः सुरैः। विष्णोः प्रभावभूम्नैव भग्नाः पेतुरथासुराः ॥ १ ॥ गुरुर्भृगुस्ततस्तेषां संरम्भाद् भृशकोपितः । जुहाव हव्यं हव्यादे छागं चैकं सलक्षणम् ॥ २ ॥ स्वेदाम्भःकणिका तस्य यत् पपात हविर्भुजि । तत्तेजसा स तुच्छागश्छागवक्त्रोऽसुरोऽभवत् ॥ ३ ॥