________________
३० . शिल्परत्ने
पूर्वभागः ईशानपर्जन्यजयन्तशकुध्वान्तापनुत्सत्यभूशान्तरिक्षाः । अग्निश्च पूषा वितथाभिधानो गृहक्षतःप्रेतनिवासकर्ता ॥३७॥ गन्धर्वसंज्ञस्त्वथ भङ्गराजो मृगाभिधानः पितरः प्रशस्ताः । दौवारिकः पश्चिमपूर्वसंस्थाः सुग्रीवसंज्ञस्त्वथ पुष्पदन्तः ॥३८ भूयः प्रशस्तौ वरुणासुरौ च शोषश्च रोगः पवनो भुजङ्गः। मुख्योऽथ फल्लाटनिशाकरौ च भूयोऽनलोऽदित्युदितिक्रमेण ॥ विष्कम्भबाह्यस्थपदप्रविष्टा द्वात्रिंशदेताः परितः प्रदिष्टाः । अन्तस्थकोणेऽर्धपदेषु चाष्टौ वक्ष्ये चतस्रश्च दिशासु योज्याः ॥ सावित्रः सविता हुताशनदिशि ब्रह्माग्निमध्येऽर्धगा
विन्द्रश्चन्द्रजयश्च राक्षसदिशि ख्यातौ पदार्धस्थितौ । रुद्रो रुद्रजयश्च वायुदिशि च ख्याती तथेशार्धगा. वापश्चापि तथापवत्स इति च द्वन्द्वस्थिता देवताः ॥११|| पूर्वादिदिक्षु क्रमशः स्थिताः स्यु
स्तथार्यकश्चापि पुनर्विवस्वान् । मित्रश्च पश्चाच्च महीधराख्यो
ब्रह्मा च मध्यस्थचतुष्पदस्थः ॥ ४२ ॥ दिक्षु कोणेषु बाह्यस्थाः पदबाह्ये पुनः क्रमात् । शर्वः स्कन्दार्यमाह्वौ च जभकः पिलिपिञ्झकः ॥ ४३ चरकी च विदारी च पूतना पापराक्षसी। ... एवं मण्डूकपदगाः कीर्तिता देवताः क्रमात् ॥ ४४ ॥ एकाशीतिपदं कृत्वा पदे परमशायिके । मध्ये नवपदः स्थाप्यो ब्रह्मा लोकपितामहः ॥ ४५ ॥