________________
पदविन्यासः
षष्ठोऽध्यायः। षोडशांशं महापीठं पञ्चपञ्चामरान्वितम् । कर्णसूत्रद्वयेनापि कोणकोष्ठे वितथो यमः॥ २७ ॥ भृङ्गश्च पितृसुग्रीवौ वरुणः शोषमारुतौ। मुख्यः सोमोऽदितिश्चापि बाह्ये देवाः प्रकीर्तिताः ॥२८॥ आपवत्सार्यसावित्रा विवस्वानिन्द्रमित्रको। रुद्रो महीधरश्चान्तमध्ये ब्रह्माप्यकोष्ठगः॥ २९ ।। उग्रपीठं भवेद् यत्र पञ्चविंशत्पदान्वितम् । तत्रैता देवताः पूज्याः पृथगेकपदस्थिताः ॥ ३० ॥ उग्रपीठपदे मध्ये चतुष्कोष्ठगतो विधिः । आर्यकश्च विवस्वांश्च मित्रकोऽथ महीधरः ॥ ३१ ॥ पदद्वितयगा ह्यन्ये पदगा इति कीर्तिताः । स्थाण्डिलाख्यपदे पूज्याः + + + + ॥ ३२३ ॥ पदानामपि सर्वेषां मण्डूकं चापि तत्परम् । भर्चितं सर्ववस्तूनामासनाख्यं परं तथा ॥ ३३३ ॥ तस्मात् सङ्क्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तत्रयम् ॥३॥ कृत्वा चतुष्षष्टिपदानि भूयः
कोणेषु सूत्रे विनिवेशये हे। तत्र स्थितानामपि देवतानां . वक्ष्ये पदानां नियमं विशेषात् ॥ ३५ ॥ ब्रह्मा मध्यचतुष्पदप्रणिहितो दिक्षवार्यकाद्याः स्थितास्तद्वाह्येऽथ चतस्र एकपदगे द्वे हे स्थिते पार्श्वयोः। कोणस्याप्यथ षोडशार्धपदगाः कोणेषु बाह्य तथा दिवस्थाः षोडश देवता विपदगाश्चाष्टौ बहिर्दिग्गताः ॥३६॥
.
" पपरम्प