________________
२६
शिल्परत्ने
. पूर्वभागः एवं ग्रामपुरादिभेदमखिलं प्रोक्तं यथालक्षणं ... ब्रह्मागस्त्यपुरन्दरैरपि यथा त्वष्टा मयेनोदितम् । यद् विज्ञाय निवेशितेषु शुभदो भूयादशेषामरैः - संपूज्यो मुनिभिस्तथैव मनुजैर्देवो मृडानीपतिः ॥ ९१॥
इति शिल्परले प्रामादिलक्षणं नाम
पञ्चमोऽध्यायः ।
अथ षष्ठोऽध्यायः ।
अथ पदविन्यासः। + + + पदविन्यासः कथ्यते वास्तुसिद्धये । सकलं पेचकं पीठं महापीठोपपीठके ॥ १॥ उग्रपीठं स्थण्डिलं च मण्डूकपरशायिकम् । आसनं च तथा स्थानीयं च देशीयमुच्यते ॥ २ ॥ भयचण्डिताख्यपदं तथा भद्रमहासनम् । पद्मगर्भ त्रियुतकं वृत्ताभोगाभिधं पुनः ॥ ३ ॥ कर्णाष्टकपदं तद्वत् तथैव गणिकापदम् । पदं सूर्यविशालं तु सुसंहितपदं पुनः ॥ ४ ॥ सुप्रतीकान्तकं तहद् विशालं विप्रगर्भकम् । विश्वेशं विपुलभोगं तथा विप्रतिकान्तकम् ॥ ५ ॥ विशालाक्षं विप्रभक्तिकं च विश्वेशसारकम् । तथैवेश्वरकान्ताख्यमिन्द्रकान्तपदं पुनः॥ ६ ॥ द्वात्रिंशद्भेदसंयुक्तमेवं पदमिति स्मृतम् । प्रान्तसूत्रचतुष्कान्तरैकं स्यात् सकलं पदम् ॥ ७ ॥