SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २६ शिल्परत्ने . पूर्वभागः एवं ग्रामपुरादिभेदमखिलं प्रोक्तं यथालक्षणं ... ब्रह्मागस्त्यपुरन्दरैरपि यथा त्वष्टा मयेनोदितम् । यद् विज्ञाय निवेशितेषु शुभदो भूयादशेषामरैः - संपूज्यो मुनिभिस्तथैव मनुजैर्देवो मृडानीपतिः ॥ ९१॥ इति शिल्परले प्रामादिलक्षणं नाम पञ्चमोऽध्यायः । अथ षष्ठोऽध्यायः । अथ पदविन्यासः। + + + पदविन्यासः कथ्यते वास्तुसिद्धये । सकलं पेचकं पीठं महापीठोपपीठके ॥ १॥ उग्रपीठं स्थण्डिलं च मण्डूकपरशायिकम् । आसनं च तथा स्थानीयं च देशीयमुच्यते ॥ २ ॥ भयचण्डिताख्यपदं तथा भद्रमहासनम् । पद्मगर्भ त्रियुतकं वृत्ताभोगाभिधं पुनः ॥ ३ ॥ कर्णाष्टकपदं तद्वत् तथैव गणिकापदम् । पदं सूर्यविशालं तु सुसंहितपदं पुनः ॥ ४ ॥ सुप्रतीकान्तकं तहद् विशालं विप्रगर्भकम् । विश्वेशं विपुलभोगं तथा विप्रतिकान्तकम् ॥ ५ ॥ विशालाक्षं विप्रभक्तिकं च विश्वेशसारकम् । तथैवेश्वरकान्ताख्यमिन्द्रकान्तपदं पुनः॥ ६ ॥ द्वात्रिंशद्भेदसंयुक्तमेवं पदमिति स्मृतम् । प्रान्तसूत्रचतुष्कान्तरैकं स्यात् सकलं पदम् ॥ ७ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy