SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पदविन्यासः षष्ठोऽध्यायः । प्राच्योदीच्यैककोष्ठादिसंप्रवृद्ध्या क्रमान्नयेत् ॥ ८ ॥ चतुष्पदं पेचकं स्यात् पीठं नवपदं स्मृतम् । महापीठं षोडशभिः पञ्चविंशति(कैः) पदैः ॥ ९ ॥ उपपीठं तु षट्त्रिंशत्पदैः स्यादुग्रपीठकम् । . स्थण्डिलं ह्यूनपञ्चाशन्मण्डूकं चाष्टकाष्टकैः ॥ १० ॥ एकाशीतिपदैः ख्यातं क्षेत्र(स्यात्)परशायिकम् । आसनं शतकोछैः स्यादेकविंशाधिकं शतम् ॥ ११ ॥ पदं स्थानीयकं नाम चतुश्चत्वारिंशताधिकम् । दशवर्गपदं तद्वत् तथा देशीयमुच्यते ॥ १२ ॥ नवषष्टयुत्तरशतं पदं चोभयचण्डितम् । (चतुरू)नहिशतपदं ख्यातं भद्रमहासनम् ॥ १३ ॥ सपञ्चविंशद्विशतं पद्मगर्भमिति स्मृतम् । षट्पञ्चाशद्विशत(क) पदं त्रियुतनामकम् ॥ १४ ॥ एकोननवतियुक्तद्विशतं वृत्तभोगकम् । सचतुर्विंशत्रिशतपदं कर्णाष्टकाभिधम् ॥ १५ ॥ त्रिशतं चैकषष्टयुक्तं पदं गणिकसंज्ञितम् । चतुश्शतपदं सूर्यविशालं परिकीर्तितम् ॥ १६ ॥ सुसंहितपदं चैकचत्वारिंशचतुश्शतम् । .. चतुरशीतिसंयुक्तं चतुःशतपदं पुनः ॥ १७ ॥ नाम्ना सुप्रतिकान्तं स्यादेकोनत्रिंशतान्वितम् । पदं पञ्चशतं नान्ना विशालकामिति स्मृतम् ॥ १८ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy