________________
राजधान्यादिभेदः] पञ्चमोऽध्यायः ।
तत्रैव लवणादिद्रव्यं तैलादिकं ज्ञेयम् । तस्मादीशपदान्तं सपुष्पकं गन्धकलभादि ॥ ८२ ॥ अभ्यन्तरगतमार्गेष्वथ रत्नं हाटकं वस्त्रम् । माञ्जिष्ठमरिचमपिरतं (2) ताम्रादिकं लोहम् ॥ ८३ ।। पिफलीक हारिद्रं मधुघततैलादिकं सर्वम् ।। तत्रान्तर्बाह्ये (वा) भैषज्यं वापि सर्वतः कार्यम् ॥८४॥ एवमनुक्तद्रव्याण्यपि च भवन्त्वत्र युक्तितः स्थाने ।
___ अथ राजधान्यादिभेदः। राजधान्यां नृपावासः पाकशालान्तरिक्षके ॥ ८५ ॥ अधीशयोर्वा पर्जन्ये शय्यासन गृहक्षते । मस्त्रशाला च निर्ऋतौ वारुणे भोजनालयम् ॥ ८६ ॥ विहारशाला वायौ स्यात् फल्लाटे कोशसंचयम् । गोष्ठागार तथा सौम्ये व्यायामोऽप्यर्गले स्मृतः ॥ ८७ ॥ पर्जन्ये स्नानभवनमैशान्यां चार्वतां गृहम् । नृत्तशाला तु गान्धर्वे पूष्णि वा गजमन्दिरम् ॥ ८८ ॥ दित्यदित्योस्तुरङ्गाणां स्त्रीणां सौम्ये च पश्चिमे ।।
मध्ये प्रपामण्डपं स्याद् वायौ चार्चा च कारयेत् ॥ ८९॥ मध्ये ब्रह्मगृहं नृपास्थितिगृहं मित्रे विहारोऽनिले ___ व्यायामोऽर्गलके धनं धनपतौ स्नानादि पर्जन्यके । ईशेऽर्वाद्यथ भुक्तिसद्म वरुणे नृत्तादि गान्धर्वके
शस्त्राचं निर्ऋतौ गृहक्षतपदे शय्यागृहं भूभुजाम् ॥९॥