SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ . शिल्परने [पूर्वभागः प्रामा भवन्यथ क्षुद्रास्तेऽप्येकादशधा स्मृताः । चतुस्त्रिद्विशतैरिष्टाः शतैश्चतुरशीतिकैः ॥ ५३ ॥ सचतुष्पष्टिपञ्चाशद्वात्रिंशत्यष्टकैरपि । विका(रा)दित्यसंख्यैश्व ब्राह्मणैः सुनिवेशितैः॥ ५४॥ एकद्विजाचादशकैरेकभोगादिका दश । सकलाधासनान्ते तु पदे प्रामादि विन्यसेत् ॥ ५५ ॥ युग्मे सूत्रं तु वीथ्याः स्युरयुग्मे पदपतयः । द्वयोर्न सङ्करं कुर्यात् सङ्करश्चेदनर्थकृत् ॥ ५६ ।। .. अथ तेषां विन्यासभेदाः। दण्डकः स्वस्तिकश्चैव प्रस्तरश्च प्रकीर्णकः । नन्द्यावर्तः परागश्च पद्मकः श्रीप्रतिष्ठितः ॥ ५७ ॥ ग्रामादीनां तु सामान्यं विन्यासस्त्वष्टधा स्मृतः । तस्मिन्नेकैव वी(थ्या?थी) स्यात् प्राचीना सोऽपि दण्डकः॥ प्राग्वीथिर्दक्षिणगा दक्षिणवीथिः प्रतीचिमुखा। पश्चिमवीथ्युत्तरगा प्रागग्रा चौत्तरी वीथिः ॥ ५९ ॥ एवं चेत् स्वस्तिकनाम्ना शिल्पशास्त्रेषु कीर्तितः। प्राक्प्रत्यगायतास्तिस्रः सौम्यास्तिस्रोऽथ वीथयः ॥ ६॥ चतस्रः पश्च वा षड् वा सप्त वा प्रस्तरस्तु सः। चतस्रो वीथयः प्राच्यां सौम्यां द्वादशवीथयः ॥ ६१॥ रुद्रदिङ्नन्दवसुभिर्मिता वापि प्रकीर्णके ।। प्रत्यग्गा वीथयः पञ्च सौम्यान्ताः स्युस्त्रयोदश ॥ १२ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy