________________
उद्यानवाप्यादिस्थानानि पञ्चमोऽध्यायः ।
शकर्या वातिशकर्याप्यष्टयात्यष्टया च सम्मितम् । नन्द्यावर्ते तु विन्यासे ग्रामादौ प्रभवन्ति हि ॥ ६३ ॥ प्राच्याष्टवीथयो यस्मिन् सौम्या धृत्यादिसंख्यया । आकृत्यन्तं समा यत्र परागोऽसौ विधीयते ॥ ६४ ॥ प्राचीना वीथयः सप्त त्रयोविंशादितः क्रमात् । आ सप्तविंशतः सौम्या विन्यासे पद्मके स्मृताः ॥ ६५ ॥ प्राचीना वीथयोऽष्टौ स्युरष्टाविंशतिकादितः। आद्वात्रिंशदुदीच्यः स्युर्विन्यासे श्रीप्रतिष्ठिते ॥ ६६ ।। एकद्वित्रिचतुष्पञ्चदण्डैः स्याद् वीथिविस्तृतिः । प्रागुत्तराभ्यां वीथिभ्यां कर्करीबन्धमध्यमा ॥ ६७ ॥ चतुर्दारा भावयेयुर्वप्रास्या दण्डकादयः । ग्रामपर्यन्तवीथिस्तु ख्याता मङ्गलवीथिका ।। ६८ ॥ नगरे स्थवीथिः सा रथ्याख्या खवटादिषु ।
अथ तेषूधानवाप्यादीनां स्थानानि । ग्रामादिष्वथ पर्जन्ये जलमार्गस्तथैन्द्रगः ॥ ६९ ॥ ईशार्गलान्तराले वा प्रागुदीचि प्लवो यथा । शस्तं सर्वत्र वाप्यादि ह्युत्तरे पुष्पवाटिका ॥ ७० ॥ दक्षिणे गणिकावाटं परितः शूद्रजन्मनाम् । वैश्यानां वणिजां प्राच्या मध्ये राजापणो भवेत् ।।७१॥ प्रागुदीच्या कुलालानां वापकानां च तत्र हि। जालिकानां तु वायव्ये सूनानां पश्चिमे गृहम् ॥७२॥ १. 'च्याः षड्वी' ख. पाठः.