SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अन्यथाग्रामः] पञ्चमोऽध्यायः । नीचं मध्यं तथा श्रेष्ठं नगरं मध्यमत्रये । त्रिचतुष्पञ्चसाहस्रनगराण्युत्तमत्रये ॥ ४२ ॥ षट्सप्ताष्टसहस्रेस्तैर्दण्डैः स्युश्चोत्तमोत्तमे । नगराणां त्रये तानि नगराणि यथाक्रमम् ॥४३॥ विकारदण्डवृद्ध्या तत् प्रत्येकं नवधा पुनः । राजधान्यादिकानां तु मानं नगरवद् भवेत् ॥ ४४ ॥ अथान्यथाग्रामः । मानाद् ग्रामस्योत्तमस्य पर्यन्तो लक्षदण्डवान् । तस्माद् विंशतिसाहस्रदण्डह्रासात् क्रमेण तु ॥ ४५ ॥ ग्रामाणां पञ्चधा मानं मुख्यतैवमुदीरितम् (?) । तस्माद् विंशतिसाहस्रदण्डात् पञ्चशतस्य तु ॥ ४६ ॥ ह्रासक्रमाद् ग्राममानान्यापञ्चशतदण्डतः। चत्वारिंशत्प्रभेदानि मध्यमाने भवन्त्विह ॥ ४७ ॥ विस्तारात् पादमध वा त्रिपादं तत्समं तु वा । मुखायामो भवेदेषां ग्रामादीनां विशेषतः ॥ ४८॥ विपुले तु मुखायामं षडष्टांशैः प्रकीर्तितम् । एतावन्मानुषेष्वेव मानं ग्रामादिषु स्मृतम् ॥ ४९ ॥ देवासुरपुरादीनां मानं न ज्ञायते नरैः । सहस्रैर्जगतीपतिवसुसंख्यैर्हि जन्मनाम् ॥ ५० ॥ श्रेष्ठोत्तमः श्रेष्ठमध्यो ग्रामः श्रेष्ठाधमस्तथा । सप्तषट्पञ्चसाहौनामा मध्योत्तमादयः ॥ ५१ ॥ चतुस्त्रिाद्विसहस्रेस्तु ग्रामाः स्युरधमत्रयाः। विप्राणां दशसप्तेषुशतैर्नीचोत्तमादयः ॥ ५२ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy