________________
२०
शिल्परले . [पूर्वभागः पर्वतस्याथवा नद्याः पार्श्वे राजबलान्वितम् ॥ ३१ ॥ राष्ट्रस्यान्तकपालाय तत् स्थानीयं विदुर्बुधाः । कृषीवलादिकावासो ग्रामोपान्ते विडम्बकम् ॥ ३२ ॥ चातुर्वण्र्यैः कर्मकारैर्नानाकर्मोपजीविभिः । पण्याश्वधनधान्याद्यैर्युक्तं तु निगमं स्मृतम् ॥ ३३ ॥ वने वा नगरोपान्ते नागरैस्तु जनैवतम् । क्षेत्रारामाकरोपेतं शाखानगरमिष्यते ॥ ३४ ॥
___अथ तेषां दण्डमानानि । अष्टाष्टदण्डविस्तारो ग्रामः स्यादधमाधमः। द्विगुणत्रिगुणौ तस्माद् ग्रामौ तौ मध्यमोत्तमौ ॥ ३५ ॥ षट्पञ्चाशच द्विशतं दण्डाः खेटेऽधमाः स्मृताः। विंशत्या त्रिशतैर्दण्डैमध्यश्चतुरशीतिभिः ॥ ३६॥ त्रिभिः शतैश्चोत्तमः स्यात् खेटं त्वेव त्रिधा स्मृतम् । अष्टौ च चत्वारिंशञ्च दण्डास्तबच्चतुश्शतम् ॥ ३७॥ हीने तु खवटे ज्ञेया मध्ये पञ्चशताधिकम् । द्वादशैवोत्तमे षभिः सप्तत्या पञ्चभिः शतैः ॥ ३८ ॥ हीनदुर्ग षट्शतैश्च चत्वारिंशद्भिरन्वितम् । चतुर्दण्डोत्तरैः सप्तशतैर्दुर्ग तु मध्यमम् ॥ ३९ ॥ अष्टाष्टियुक्सप्तशतैर्युतं दुर्गमिहोत्तमम् ? । सद्वात्रिंशद्वसुशतैः षण्णवत्याष्टभिः शतैः ॥ ४० ॥ षडुत्तरैर्नवशतैर्नीचे त्रिनगराणि वै । सहस्रेण च सार्धेन द्विसहस्रेण च क्रमात् ॥ ४१ ॥