________________
प्रामादिलक्षणम्] पञ्चमोऽध्यायः ।
द्वाराणि मण्डपसभाशालागाराणि कार्याणि । पर्यन्ते यन्त्रयुतं परितः परिखैश्च संयुक्तम् ॥२०॥ पांसुचययुक्तमार्ग विधिवत् कार्य हि सर्वत्र । । परितः शिबिरोपेतं नानाजनवाससङ्कीर्णम् ॥ २१ ॥ द्वादशसालायुक्तं चतुरं वृत्तं तदायतं वापि । नन्द्यावर्त कौक्कुटमिभकुम्भनागवृत्तं च ॥ २२३ ॥ नेमिन्नं च त्रिकोणं षट्कोणाष्टाश्रनेमिखण्डं च।। प्राकारं चेष्टकया द्वादशहस्तोच्छ्रयाधीनम् ॥ २३ ॥ उत्सेधार्धविशालं कार्य स्यात् सर्वदुर्गेषु । पांसुचययुक्तमार्ग मूला भित्तिः ससञ्चारा ॥ २४ ॥ राष्ट्रस्य मध्ये नद्या वा समीपे नगरं स्मृतम् ॥ २५ ॥ तदेव शकुपङ्कायैः प्राकाराट्टालगोपुरैः। शतघ्न्याद्यैश्च परितः परिस्तीणोंच्छिताट्टका ॥ २६ ॥ एकद्वित्रिचतुर्दारा राजधानीति कथ्यते। नानापण्यधनाकीर्ण सागरानूपसंश्रितम् ॥ २७ ॥ सांयात्रिकवणिग्जुष्टं पत्तनं परिचक्षते । तदेवा(ध्या?ब्धे)श्व नद्याश्च सङ्गमागतपोतकम् ॥ २८ ॥ द्वीपान्तरवणिग्जुष्टं विदुोणीमुखं बुधाः। . परराष्ट्रे स्वदेशे वा चतुर्विधबलान्वितम् ॥ २९ ॥ विजिगीषोः सन्निवेशं शिबिरं तत् प्रचक्षते । नातिदूरे तदेव स्यान्नृपयोयुध्यतोर्मिथः ॥ ३० ॥ सेनानिवेशं तु पृथक् स्कन्धावार उदीरितः ।