SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १८ शिल्परले नृपभवनसमोपेतं हस्त्यश्वरथपदातिबहुलमुख्यम् । धान्य स्नेहक्षारलवण भैषज्यगन्धविषयुक्तम् ॥ ९३ ॥ लोहाङ्गारस्त्रायुविषाणवेष्विन्धनादिसर्वयुतम् । तृणचर्मशाकयुक्तं वल्लूरकसारदारुसंयुक्तम् ॥ १०३ ॥ दुर्गे दुर्गममुक्तं दुर्लङ्घयं दुरवगाहमतिमात्रम् | रक्षार्थं च जयार्थं त्वरिभिरभेद्यं च दुर्गमिष्टं स्यात् ॥ ११ ॥ गिरिमध्यं गिरिपार्श्व गिरिशिखरं पार्वतं दुर्गम् । निर्जल (तल ?) तरुवनगहनं वनदुर्गे तदुभयमिश्रं स्यात् ॥ १२३ ॥ तदेव सह (ज) जलं चेज्जलदुर्गे पङ्कयुक्तं वा । नद्यन्ध्यावृतकं यज्जलदुर्गे निगदितं पूर्वैः ॥ १३३ ॥ अक्षयजलत (रु) विपुलैरणगहन सालमैरणं प्रोक्तम् | इन्द्रश्च वासुदेवो गुहो जयन्तश्च वैश्रवणः ॥ १४३ ॥ ॥ अश्विन्यौ श्रीमन्दिरशिवौ च दुर्गा सरस्वती चेति । प्राकारस्थास्त्वेते यस्मिंस्तद् दिव्यदुर्गे स्यात् ॥ १५३ ॥ घावनकृतको दुर्गौ विज्ञेयौ स्वस्वनामसदृशतरौ । एकोनविंशतिविषं दुर्गं प्रायेण कथितं स्यात् ॥ १६३ ॥ अक्षयजलान्नभक्षमतिविपुलोर्थगहन सालम् (?) । सर्व हि दुर्गजातं सप्राकारं च मुखरक्षम् || १७३ | बहिरुद करहितवनच्छन्नपथं दुष्प्रवेशं च । गोपुरमण्डपयुक्तं सोपानं छन्नमच्छन्नम् ॥ १८३ ॥ द्विकवाटचतुष्कुटिकव्यर्गलकं करमानद्दिकीलम् । सस्थूणमध्यमालं त्विण्टकसहितं च सुदृढसोपानम् ॥ ९९३ ॥ [पूर्वभागः
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy