SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चमोऽध्यायः। प्रामादिलक्षणम् । चतुरश्राष्टदण्डा भूः काकिणी तच्चतुर्गुणा । माषो वेदगुणस्तस्माद् भवेद् वर्तनकाह्वया ॥ १ ॥ तत्पञ्चगुणिता खाटी कुडुम्बं तच्चतुर्गुणम् । एककुडुम्बसमेतं कुटितं वाोकभोगं वा ॥२॥ तल्लक्षणविस्तारं वक्ष्ये पश्चाद् विशेषतः (?) ॥ २३ ॥ द्विजकुलपरिपूर्ण वास्तु यन्मङ्गलाख्यं नृपवणिगतियुक्तं वास्तु यत् तत् पुरं स्यात् । कतिपयजनवासो ग्राम इत्युच्यतेऽस्मिन् मठमिति पठितं यत् तापसानां निवासम् ॥ ३३ ॥ ग्रामश्च खेटकश्चैव खर्वटं दुर्गमेव च ॥ ४ ॥ नगरं राजधानी च पत्तनं द्रोणिकामुखम् । शिबिरं स्कन्धवारश्च स्थानीयं च विडम्बकम् ॥ ५ ॥ निगमश्चाथ निर्दिष्टः स्याच्छाखानगरं ततः। एषां चतुर्दशानां च लक्षणं पृथगुच्यते ॥ ६॥ . नद्यादीनां दक्षिणादौ तीरे ग्रामान् निवेशयेत् । ग्रामयोः खेटकं मध्ये राष्ट्रमध्ये तु खर्वटम् ॥ ७ ॥ पर्वते वा वने वाब्धौ दुगं स्याहा जलावृतम् । दुर्ग तु पार्वतं वन्यमौ(द)कं चैरणं तथा ॥ ८ ॥ देवकं धावनं चैव कृतकं चेति सप्तधा।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy