________________
शिल्परत्ने
[पूर्वभागः काष्ठेष्टकतुषाङ्गारपाषाणास्थिसरीसृपान् । हलाओणोद्धृतां दृष्ट्वा तस्य विद्यादिदं फलम् ॥ ३३ ॥ काष्ठेष्वग्निभयं सर्वास्विष्टकासु धनागमम् । अङ्गारेषु महद् रोगं तुषेष्वेव धनक्षयम् ॥ ३४ ॥ पाषाणेष्वपि कल्याणं कुलनाशं तथास्थिषु ।
+
+
+
+
+
+
+
+
+
+
+
+
+
+
+ --
।
कृष्ट्वा तां कपिलैर्वृषैश्च बहुशः कृत्वा हलाद्यैर्नवै.
राचार्योऽथ नवाम्बरो भुवि वपेद् धान्यानि तन्मन्त्रकैः। अगिस्तान्यभिसेचयेच्च परितः संरक्ष्य संवर्धये. दापुष्पाफलमत्र तानि पशुभिः संभक्षयेदादरात् ॥ ३६ ॥ यानि स्वस्खाङ्कुरोक्तानि बीजान्यथ पृथक् पृथक् ।
तानि निष्पाक्कादीनि विहितान्यत्र वापने ॥ ३७ ॥ भूयस्तत्र विधाय गोनिवसनं नीत्वा च संवत्सरं
मुद्गादीनि पुनश्च तत्र निवपेद् धान्यानि पूर्वक्रमात् । भूयस्तान्यपि भक्षयेच्च पशुभिः शुद्धे मुहूर्त तथा
खात्वा शल्यविमोचितामतिदृढां भूयो विदध्यान्महीम् ॥ त्रिरात्राङ्कुरिता श्रेष्ठा वेदरात्रैस्तु मध्यमा। अधमा भूतरात्रैस्तु मही स्याद् बीजवापने ॥ ३९ ॥ विधिनैवं स्वीकृतायां धरायां लक्षणान्वितम् । ग्रामादिकं करोत्वार्यो गुरुशिल्पिभिरन्वितः ॥ ४ ॥
इति शिल्परत्ने भूमिपरिग्रहणं नाम
चतुर्थोऽध्यायः ।