SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने [पूर्वभागः काष्ठेष्टकतुषाङ्गारपाषाणास्थिसरीसृपान् । हलाओणोद्धृतां दृष्ट्वा तस्य विद्यादिदं फलम् ॥ ३३ ॥ काष्ठेष्वग्निभयं सर्वास्विष्टकासु धनागमम् । अङ्गारेषु महद् रोगं तुषेष्वेव धनक्षयम् ॥ ३४ ॥ पाषाणेष्वपि कल्याणं कुलनाशं तथास्थिषु । + + + + + + + + + + + + + + + -- । कृष्ट्वा तां कपिलैर्वृषैश्च बहुशः कृत्वा हलाद्यैर्नवै. राचार्योऽथ नवाम्बरो भुवि वपेद् धान्यानि तन्मन्त्रकैः। अगिस्तान्यभिसेचयेच्च परितः संरक्ष्य संवर्धये. दापुष्पाफलमत्र तानि पशुभिः संभक्षयेदादरात् ॥ ३६ ॥ यानि स्वस्खाङ्कुरोक्तानि बीजान्यथ पृथक् पृथक् । तानि निष्पाक्कादीनि विहितान्यत्र वापने ॥ ३७ ॥ भूयस्तत्र विधाय गोनिवसनं नीत्वा च संवत्सरं मुद्गादीनि पुनश्च तत्र निवपेद् धान्यानि पूर्वक्रमात् । भूयस्तान्यपि भक्षयेच्च पशुभिः शुद्धे मुहूर्त तथा खात्वा शल्यविमोचितामतिदृढां भूयो विदध्यान्महीम् ॥ त्रिरात्राङ्कुरिता श्रेष्ठा वेदरात्रैस्तु मध्यमा। अधमा भूतरात्रैस्तु मही स्याद् बीजवापने ॥ ३९ ॥ विधिनैवं स्वीकृतायां धरायां लक्षणान्वितम् । ग्रामादिकं करोत्वार्यो गुरुशिल्पिभिरन्वितः ॥ ४ ॥ इति शिल्परत्ने भूमिपरिग्रहणं नाम चतुर्थोऽध्यायः ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy