________________
हललक्षणम्]
चतुर्थोऽध्यायः। यदि कुर्यात् तत्र देवे नैव सान्निध्यवर्धनम् । (स?)मानुषे तत्र वसतां गोनाशं च प्रवासनम् ॥ २३ ॥ रोगनैर्धन्यमाक्लेशं धननाशं च निर्दिशेत् । जीवन्मध्ये तु धान्याप्तिं कूर्मों नित्यं प्रवर्तयेत् ॥ २४ ॥ मण्डूकोऽप्यचलां लक्ष्मी मूषिको धर्मशीलताम् । मध्ये मण्डूककूमौ वा स्वर्ण चेद् वितरेन्मणिम् ॥ २५ ॥ खातान्नाभ्युद्धरेत् तस्मादुद्धृतश्चेदनर्थकृत् । तस्माद् यत्नात् समुद्धृत्य दुःशल्यं पुनरञ्जसा ॥ २६ ॥ करोतु शुद्धभूतायां कर्षणाचं गुरुर्भुवि ।। कारयेदसनाद्यैर्वा क्षीरवृक्षरथापि वा ॥ २७ ॥ कारयेन्मतिमानत्र लक्षणेन हलं युगम् ।
अथ हललक्षणम् । जिनाङ्गुलायतं घ्राणं तदध्यर्धा च मेखलाम् ॥ २८ ॥ षडङ्गुलं तुः विस्तारं घ्राणे वेदाङ्गुलं धनम् । क्रमेण कार्यतां प्राप्तं तस्याग्रं जिह्वयाचितम् ॥ २९ ॥ सी(सा ? रा)यामं त्रिहस्तं तद्युगं युगकरायतम् । तयोः सप्ताङ्गुलं नाहं युगकीलान् करार्धकान् ॥ ३०॥ युगसंख्यामात्रघनान् वृषसम्बन्धनक्षमान् । करोतु जिह्वां लोहैर्वा खादिरेणाथवा दृढाम् ॥ ३१ ॥ कृष्टपूर्वी वृषौ स्यातां कर्षणे कपिलौ सितौ। सुलग्ने विधिनाचार्यस्तत्र कर्षणमाचरेत् ॥ ३२ ॥
१.
गं' क. पाठः.