________________
शिल्परत्ने
. पूर्वभागः कण्डूयनादिविकृतौ शल्यमस्तीति निर्दिशेत् । श्वसृगालाजगोश्वादीनथ तत्समये तथा ॥ १२ ॥ . यदि पश्येदतः सूत्राच्छख्यमस्तीति निर्दिशेत् । शिरःकण्डूयनेऽस्थि स्याच्छिरसो हस्तमानके ॥ १३ ॥ मुखस्पर्शे कपालं वा काष्ठं वा चिकुरे तथा । कर्णकण्डूयने हस्तत्रिके लोहजशृङ्खलाम् ॥ १४ ॥ अंसयोरथ बाह्वोर्वा कटौ लोहान् प्रकोष्ठयोः । हस्तमात्रे वदेदेवमेवोर्वोः काष्ठकास्थिनी ॥ १५ ॥ उरोहृदययोः स्पर्श तावन्मात्रेऽस्थि निर्दिशेत् । जानुकण्डूयनेऽस्ताम्भः करमात्रे भवेदतः ॥ १६ ॥ जङ्घयोः केशमादेश्यं कुञ्जरास्थीनि पादयोः । अगुष्ठायगुलिष्वर्धाकालोकांस्यं (2) विनिर्दिशेत् ॥ मार्जारलङ्घनेऽप्यस्ति तत्प्रमाणे शुनां वदेत् । अजादाजं तु वा शौनं महिषास्थि तुरङ्गमात् ॥१८॥ माहिषेण वदेज्जम्बुकास्थि कौलन्तु जम्बुकात् । कौलेन व्याघ्रजं वास्थि व्याघेणैवं भवेत् पुनः ॥ १९ ॥ इभेन नारं विज्ञेयं गर्दभं तु नरेण हि । गर्दभेनाजजं सूत्रलङ्घने (तु) वदेदिति ॥ २० ॥ क्षेत्रप्रवेशनात् तेषां दर्शने शब्दिते श्रिते । तेषां कर्तिनतो वापि शल्यमेवं समादिशेत् ॥ २१ ॥ भस्माङ्गारतुषादीनि पक्षिणां लङ्घनादितः । वदेत् त्वनुते शल्य देवमर्त्यगृहादिकम् ॥ २२ ॥