________________
शूद्रपरगृहप्रकारः चतुर्थोऽध्यायः ।
तत्तद्योगां महीं लब्ध्वा छित्त्वा गुल्मादिकानपि ।
मात्वा गुरुः सुलग्नः तत्तदर्थ परिग्रहेत् ॥ २ ॥ प्राकारपर्यन्तमथ प्रकल्प्य दत्त्वा बलिं तत्र च भूतकूरम् । शकुं निधाय प्रविधाय सूत्रमुन्मीय भूमिग्रहणं विदध्यात् ।। पुन्नागैकतरूद्भवान् करमितान् तत्पादनाहान् दृढान् शकून् प्राग्विधिनाथ मन्त्रमहितान्मध्यादिशान्तिमम् । मात्वा कल्पितसालसीम्नि परितः शकुं द्विसंवेष्टितं मन्त्री संप्रविसार्य सूत्रमपि गृह्णातु क्षितिं सर्वतः ॥ ४ ॥
तत्तत्सीमासु तच्छकून् विन्यस्य प्रथमं गुरुः । ताडयेल्लोहकूटेन मुद्गरेणाथवा समम् ॥ ५ ॥ नाश्मना (वा) न काष्ठेन ताडयेद् दोषकृद् यतः । ततः शिल्पी यथेष्टं तु शकून् कूटेन ताडयेत् ॥ सहसा प्रविशेच्छङ्कुर्न विशेद् वान विनकृत् । शनैर्ऋजन्नृजुः शङ्कुः कर्मसिद्धिं तदा वदेत् ॥ ७ ॥ मध्यादिशतशळूनां भिन्ने शीर्णेऽथ ताडने । फलानि क्रमशो विद्यात् कर्तुः पुत्रस्य वा मृतिः ॥ ८॥ भयं मृतिस्त्वर्थनाशं भयं शोकं मृति सुखम् । अविशीर्णोच्छ्रितशिखे स्थानवृद्धिं समादिशेत् ॥ ९॥ कार्पाससूत्ररज्जुः स्यात् प्रशस्ता सुदृढा समा। गौणी कौश्यथवा मौञ्जी तया सूत्रं प्रसारयेत् ॥ १०॥ नियुक्तसूत्रपाते यो यजमानोऽथवा परः । निर्विकारौ यदा स्यातां निश्शल्यां भुवमादिशेत् ॥११॥