________________
' २५७ .
चित्रलक्षणम् । पट्चत्वारिंशोऽध्यायः ।
श्वेतं कृष्णं समं मिश्रं गजवर्णमुदाहृतम् । रक्तं पीतं समं मिश्रं बकुलस्य फलाकृति ॥ १३६ ॥ ज्वलनाभमिदं ख्यातमग्निवर्णनिभं परम् । पीतस्य द्विगुणं रक्तं मिश्रितं त्वतिरक्तकम् ।। १३७ ।। श्वेतस्य द्विगुणं पीतं मिश्रं ख्यातं तु पिङ्गलम् । कृष्णस्य द्विगुणं पीतं मिश्रितं त्वम्बुसम्मितम् ॥ १३८ ॥ तदेव नृणां वर्णः स्यात् कृष्णं पीतसमं तु वा । हरितालं श्यामयुतं शुकपक्षनिभं भवेत् ॥ १३९ ॥ लाक्षारसेन संयुक्त हिमुदं त्वतिरक्तकम् । लाक्षारसेन संमिश्रं कृष्णं जम्बुफलाकृति ॥ १४ ॥ लाक्षारसं जातिलिङ्गं सितवर्ण यथा समम् । सम्मिश्रमुत्तमं वर्ण हिमुदेनात्र वा युतम् ॥ १४१ ॥ कृष्णं नीलेन सम्मिश्रं केशवर्णमुदाहृतम् । एवं मिश्रकवर्णानि युक्त्या संयोज्य संलिखेत् ॥ १४२ ॥ सुधाधवलिते भित्तौ नैव कुर्यादिदं सुधीः । रसचित्रं तथा धूलीचित्रं चित्रामति विधा ॥ १४३ ॥ एतान्यनलवर्णानि चूर्णयित्वा पृथक् पृथक् । एतैथूर्णैः स्थाण्डिले रम्ये क्षणिकानि विलेपयेत् ॥ १४४ ॥ धूलीचित्रमिदं ख्यातं चित्रकारैः पुरातनैः सादृश्यं दृश्यते यत्तु दर्पणे प्रतिबिम्बवत् ॥ १४५ ॥ तचित्रमिति विख्यातं नालमाकारमात्रकम् । शृङ्गारादिरसो यत्र दर्शनादेव गम्यते ॥ १४६ ॥