________________
[पूर्वभागः
२५६
शिल्परले
जाते सुपिटे तपिटे काचपात्रे जलैः सह । आलोड्योर्ध्वगतं पङ्कं सिकतां च पुनः पुनः ॥ १२५ ॥ सन्त्यज्य जातं स्वर्णस्य पङ्कमत्युज्ज्वलं बुधः ।
+- 1.
है : तः ॥ १२६ ॥
युक्तितो वज्रलेपेन सह तत्तदुचितलेखिन्या विशेषज्ञो लिखेदिदम् । वराहदंष्ट्रमुख्येन शुष्के तस्मिन् पुनः पुनः ॥ १२७ ॥ यावदस्य प्रभा जाता तावन्मन्दं विघट्टयेत् । अथवा वज्रलेपेन स्वर्णस्थानं विलेखयेत् ॥ १२८ ॥ विन्यसेत् तत्र तत्राशु यथायुक्ति विदारितान् । अतीव मृदुलान् स्वर्णपट्टानतिदृढैः पुनः ॥ १२९ ॥ कार्पासपुङ्खैः संमा प्रकाशीकियतामिदम् । एवं पूर्वैः स्वर्णलेपविधिरुक्तो द्विधा बुधैः ॥ १३० ॥ माहिषत्वचमादाय नवां तोयेन पाचयेत् । नवनीतमिवायाति गालयित्वा यदा तदा ॥ १३१ ॥ गुलिकाश्च ततः कार्या याः शुष्काच महातपे । वज्रलेपमिदं ख्यातं चित्रकारसुखावहम् ॥ १३२ ॥ क्षिप्त्वोष्णतोये विद्राव्य तत्तद्वर्णेषु युक्तितः । कपित्थनिम्बनिर्यासतोयस्थानेऽपि योजयेत् ॥ १३३ ॥ अन्योन्ययोगात् संजातवर्णभेदोऽथ कथ्यते । सितं रक्तेन संयुक्तं गौरच्छवि हि दृश्यते ॥ १३४ ॥ श्वेतं कृष्णं च पीतं च समभागविमिश्रितम् । शारच्छवीति विख्यातं वर्णकारसुखप्रदम् ॥ १३५ ॥