________________
चित्रलक्षणम् ]
पट्चत्वारिंशोऽध्यायः ।
तत्तद्वर्णस्य विन्यासे श्यामता स्थूलतैव हि ।
योज्या त+लता तद्वत् क्वचिद् वर्णान्तरैः स्मृता ॥ ११४ ॥ वतोज्ज्वले (?) पीतवर्णे श्यामस्तत्रापि लोहितः । प्रान्ते कज्जलवर्णेन सूक्ष्मया संलिखेत् सुधीः ॥ ११५ ॥ क्षुरेण शितधारेण तत्कर्मपदमञ्जसा ।
संमृजेत्तु खरादीनि चित्रमेवं समाचरेत् ॥ ११६ ॥ अथवान्यप्रकारेण वर्णयोगः प्रकीर्त्यते । मृदुरक्ते तु सिन्दूरं गैरिकं मध्यरक्तके ॥ ११७ ॥ अतिरक्ते तु संयोज्यं वर्णे लाक्षारसं विदुः । मनश्शिला पीतवर्णे ततोऽन्यत् पूर्वमुक्तवत् ॥ ११८ ॥ गैरिकं तु शिलापृष्ठे दिनमेकं सुपेषयेत् । तत् कोषितं शुद्धतोयैः संग्रहेन्मुद्गरादिषु ॥ ११९ ॥ दिना पेषयेत् तत् सिन्दूरं जलमिश्रितम् । निर्जलं चूर्णयेत् तत्र पेषण्यां तु मनश्शिलाम् ॥ १२० ॥ दिनपञ्चकमात्रं तं पुनस्तोयविमिश्रकम् । दिनमेकं पेषयित्वा सम्यक् पात्रेषु संग्रहेत् ॥ १२१ ॥ एतेषां निम्बनिर्यासतोयं संयोज्य युक्तितः । सम्म पलिखनप्रक्रियाश्च समाचरेत् ॥ १२२ ॥
२५५
अथ स्वर्ण पेषणार्थं पत्रीकृत्य यथा मृदु । तत्पत्रं शकलीकृत्य सूक्ष्मात् सूक्ष्मतरं पुनः ॥ १२३ ॥ किञ्चित्सिकतसंमिश्रं शुद्धतोयविमिश्रितम् । पेषयेत् पेषणीश्वभ्रे सुश्लक्ष्णदृपदा सुधीः ॥ १२४ ॥