________________
२५४
शिल्परने
.
स्फिजोर्मण्डलभागस्तु क्रमशो यवहीनकः । स्फिजो बुध्न प्रदेशस्तु सूत्रस्याङ्गुलतोऽधिकः ॥ १०३ ॥ ऊरोबगता रेखा क्रमशः परिहीयते ।
घट्टिता जानुसन्धौ तु जङ्घा स्याद् द्व्यङ्गुलाधिका ॥ १०४ ॥ अधिकैस्तत्क्रमः + + कथितः सूक्ष्मयुग्मके । आकारं लक्षणं प्रोक्तं प्रमाणेन यथाक्रमम् ॥ १०५ ॥ अर्धम प्रदश्य स्याच्छेषं भित्तिगतं भवेत् । चतुष्प्रकारभिन्नानां स्थानानां वच्मि लक्षणम् ॥ १०६ ॥ परावर्तगतानां वै सूत्रमानादि सर्वतः । ऋजुकेऽर्धर्जुके साचीस्थाने व्यर्धाक्षिसंज्ञके ॥ १०७ ॥ यथा तथा लक्षणं स्यादियमेव भिदात्र तु । पुरोभागं भित्तिगतं पृष्ठं दृश्यं भवेदिति ॥ १०८ ॥ एतेषां मिश्रभावानां स्थानानि स्युरनेकधा । ऋजुस्थानमुखं यत्र तत्रान्यत् कण्ठतोऽप्यधः ॥ १०९ ॥ तत्रापि कट्यधस्त्वन्यदिति सङ्करपद्धतिः । एवं स्वस्वोचितं स्थानं मनसा निश्चित्य बुद्धिमान् ॥ लिखेच्चित्रगतं भावं तथा व्यापारमेव च। अथ वर्णानि विन्यस्य तत्र तत्रोचितक्रमात् ॥ १११ ॥ लेखिन्या स्थूलया मन्दं निष्कलङ्कं महामतिः । तत्र निम्नोन्नतादीनि विशेषाणि समाचरेत् ॥ ११२ ॥ श्यामोज्ज्वलत्वभेदौ च तथा पारुष्यमार्दवान् । विन्यासक्रमभेदौ च कुर्यात् सर्वमनोहरम् ॥ ११३ ॥
[पूर्वभागः