________________
चित्रलक्षणम् षट्चत्वारिंशोऽध्यायः ।
२५३ ऊर्ध्वपृष्ठे तथा स्कन्धे कूपरे पाष्र्युपान्ततः । इतरत् पक्षसूत्रं तु कमेणैवं विधीयते ॥ ९२ ॥ ब्रह्मसूत्रात् पुरोभागे केशान्तं त्रियवान्तरम् । नासामूलस्य सूत्रस्य यवहितयमन्तरम् ॥ ९३ ॥ यवमानान्तरा गोजी निम्ना सा परिकल्प्यते । मास्यमध्यगता रेखा सूत्रादर्धयवान्तरा ॥ ९४ ।। अन्तरं ब्रह्मसूत्रस्य चिबुकस्यैकमङ्गुलम् । हनुचक्रं ततो लेख्यं सूत्रात् पञ्चयवान्तरम् ॥ ९५ ॥ ध्यङ्गुलं हनुचकं स्याद् ग्रीवासन्धिस्तु मात्रया। एका भागान्तरा कार्या ब्रह्मसूत्रानुसारतः ॥ ९६ ॥ घट्टिते ब्रह्मसूत्रेण सूनरोहितचूच्यते(?) । मूलमग्रं च लिङ्गस्य भवेत् सूत्रेण घट्टितम् ॥ ९७॥ पक्षसूत्रस्य कूर्चस्य मध्यं व्यङ्गुलसंयुतम् । अन्यस्य पक्षसूत्रस्य फलकं गोलगाधिकम् (?)॥ ९८ ॥ कलया बाहुमूलं स्यात् फलकं यमुलं ततः। भुजमध्यप्रदेशे तु दशपञ्चनवाधिकम् ॥ ९९ ॥ अर्धाङ्गुलाधिकं कार्यं तत्फलं तु विचक्षणैः । यवमात्रात् क्रमाडीना रेखा बाह्ये तु बाह्यगा ॥ १० ॥ यावत् कूपरंगस्थानं तत्रे सूत्रेण घट्टितम् । कूर्परान्निर्गता काञ्ची जघनस्फिक्तटं तथा ॥ १०१ ॥ काञ्ची ड्यङ्गुलतः कार्या व्यङ्गुल वस्तिमस्तकम् । बस्तिस्तु तीव्रदेशः स्याच्चतुर्भिनिर्गतोऽङ्गुलैः ॥ १०२ ॥