________________
२५२ शिल्परत्ने
[पूर्वभागः कन्धरात् स्कन्धसन्धेश्च स्तनचूचुकमण्डलात् । अङ्गुलात् पर्वतश्चैव मध्यभागेन सङ्गतम् ॥ ८१ ॥ कलामात्रं परित्यज्य काञ्चीदेशस्य मध्यतः। मणिबन्धगतं तद्वत् पूर्वभागस्य पाणितः ।। ८२ ।। अन्यपार्श्वगतं सूत्रं क्रमेणैव निरूपितम् । एवं साचीगतं स्थानं साकल्येन निरूपितम् ॥ ८३ ।। व्यर्धाक्षि वक्ष्यते स्थानं लक्ष्यलक्षणसंयुतम् । एकत्रैकाङ्गुलं ह्यस्मिन्नन्यत्रैकादशाङ्गुलम् ॥ ८४ ॥ मध्याद द्यर्धाक्षिके स्थाने लम्बसूत्रक्रमो भवेत् । आकेशान्नासिकाग्राञ्च कक्षमूलाच नाभितः ॥ ८५ ॥ जानुमध्यात् पार्थसूत्रमूलेऽङ्गुष्ठकसंश्रितम् । सीमन्ततो भ्रुवोर्मध्याद् ब्रह्मसूत्रं विनिर्गतम् ॥ ८६ ॥ गोजीतो हनुतः कक्षमूलदेशाच्च मात्रया । अङ्गुलं नाभितस्त्यक्त्वा लिङ्गपाचीत् तथाणितः ।। ८७ ।। अङ्गुष्ठोपान्तदेशाच्च पूर्वसन्ध्यङ्गुलीव्रजेत् । अन्यपार्श्वगतं सूत्रमूर्ध्वपृष्ठविनिर्गतम् ।। ८८ ॥ मणिबन्धात् तर्जनीतः पूर्वपादस्य पाणितः । क्रमेणैवं प्रकुर्वीत सूत्रत्रयमुदीरितम् ॥ ८९ ॥ एवं व्यर्धाक्षिके सूत्रस्थानं भित्तिकमुच्यते । पक्षसूत्रद्वयं तिष्ठेद् ब्रह्मसूत्रं न दृश्यते ॥ ९० ॥ तेनैव मिलितं कार्य मध्यसूत्रं विचक्षणैः । नान्यत्र दृश्यते क्वापि ब्रह्मसूत्रं ततः स्मृतम् ॥ ९१ ।।