________________
.
२५१
चित्रलक्षणम्) षट्चत्वारिंशोऽध्यायः।
परभागगते पादे कल्पिताङ्गुष्ठमूलतः । ततः स्तनप्रदेशाच्च कुचचूचुकतो बहिः ॥ ७॥ जानुतः पश्चमांशेन बहिर्भागे व्यवस्थितम् । पूर्वभागे तु मध्याया अनामायाश्च मध्यगम् ॥ ७१ ॥ स्यातामेवं पक्षसूत्रे ब्रह्मसूत्रं तु कथ्यते । ललाटे च भ्रुवोर्मध्ये नासाग्रे रन्ध्रतो बहिः ।। ७२ ॥ नाभिरन्ध्रबहिःपा लिङ्गमध्यसमागतम् । परभागे तु तस्याङ्ग्रेर्गुल्फस्योपरिसङ्गतः ॥ ७३ ।। ब्रह्मसूत्रप्रकारोऽयं भागेनकेन सङ्कटः(?) । अथाङ्गसन्निवेशादि सर्वमूह्यं स्वबुद्धितः ॥ ७४ ॥ अर्धर्जुकमिदं स्थानं साचिकं कथ्यतेऽधुना । अङ्गुलानि दशैकत्र कलामात्रं ततोऽन्यतः ॥ ७५ ॥ अन्तरं ब्रह्मसूत्रस्य पार्श्वसूत्रद्वयस्य च । ललाटाल्लोचनप्रान्तात् कपोलात् स्कन्धदेशतः ॥ ७६ ॥ एकाङ्गुलं स्तनस्यान्तं नाभेः सार्धाङ्गुलावधि । वक्षणादणिदेशाच्च बहिर्व्यक्तं विनिर्गतम् ॥ ७७ ॥ परपादाङ्गुष्ठमूले पादसूत्रं विधीयते । सिन्धोच्च + (?) भ्रुवोर्मध्यान्नासारन्ध्रस्य मध्यतः ॥ ७८ ॥ व्यङ्गुला दृढतः(?) पश्चान्नाभिरन्ध्रस्य मध्यतः । मेहनस्य बहिर्भागाज्जानुमण्डलपूर्वतः ॥ ७९ ॥ नखरस्य तथा प्रान्ताद् ब्रह्मसूत्रं न्यसेत् क्रमात् । मस्तकस्य तथा पृष्ठात् कर्णोपान्तात् तथैव च ॥ ८ ॥