________________
२५०
शिल्परले
किलेखा बहिर्भागे लिखित्वाव्यक्तमम्बरैः । मार्जयेत् किट्टलेखां तां पुनः सुव्यक्तमालिखेत् ॥ ५९ ॥ रक्तवर्णरसेनाथ सर्व सम्यक् समालिखेत् । ऋज्वादिस्थानभेदानां लेखने वच्मि लक्षणम् ॥ ६० ॥ ऋजु स्यात् संमुखं स्थानमन्यदर्धर्जुसंज्ञकम् । तृतीयं साचिकं प्रोक्तं तुर्य व्यर्धाक्षिसंज्ञकम् ॥ ६१ ॥ पञ्चमं भित्तिकं प्राहुस्तज्ज्ञाः पार्श्वगतं तु तत् । पञ्च स्थानानि मुख्यानि कथितानीह संज्ञया ॥ ६२ ॥ ऋज्वादिपरतस्तस्मात् परावृत्तं चतुर्विधम् । एवं नवैव स्थानानि वदन्तश्चित्रलेखकाः || ६३ ॥ तेषां तु लक्षणं वक्ष्ये ब्रह्मसूत्रविभेदतः । पूर्वतः पूर्वभागः स्यात् परभागस्तु पृष्ठतः ॥ ६४ ॥ नासाग्रमध्यान्नाभेस्तु मध्यमं संलिखेत् सुधीः । आपादमकुटाग्रं यत् सूत्रं ब्राह्ममिति स्मृतम् ॥ ६५ ॥ ब्रह्मसूत्राद् बहिःसूत्रे षट्षडङ्गुलमध्यगे । यत्तत् स्यात् तदृजुस्थानं रूपसांमुख्ययोगि तत् ॥ ६६ ॥ पूर्व भागगतं गात्रं सम्पूर्ण दृश्यते स्फुटम् । कर्णनासामितावत्र शङ्खावङ्गलिसम्मितौ ॥ ६७ ॥ पादौ भागगतौ दृश्यावङ्गल्यश्चित्र भागिकाः । ऋजुस्थानमिदं प्रोक्तं यत्र पृष्ठं न दृश्यते ॥ ६८ ॥ अथार्धर्जु प्रवक्ष्यामि सूत्रत्रयविशेषतः । अन्तरं ब्रह्मसूत्रस्य पक्षसूत्रं
+ +- + + ॥ ६९ ॥
[पूर्वभागः