________________
चित्रलक्षणम्] पट्चत्वारिंशोऽध्यायः ।
शुष्कगोमयचूर्णेन संमृज्योदरमस्य वै । तद् दीपोपरि दीपस्य संमुखं विन्यसेत् पुनः ॥ ४८ ॥ तत्र दीपशिखोद्भूतं कज्जलं तहटोदरे । आलग्नं सम्यगादाय मृहटादौ बिलेपयेत् ॥ ४५ ॥ मर्दयेत् स्वस्य हस्तेन भूयोद्वर्त्य पुनस्तथा । शुद्धाम्बुमिश्रं समर्थ बहुशः शोषयेत् पुनः ॥ ५० ॥ एतत्रयं पुनर्युक्त्या निम्बनिर्यासवारिणा । सम्म शोषयेत् पश्चादथान्यानपि पेषयेत् ॥ ५१ ॥ श्यामधातून यवमानं शुद्धतोयेन पेषयेत् । पुनः कपित्थनिर्यासतोयैः संमर्य शोषयेत् ॥ ५२ ॥ लेखनी त्रिविधा ज्ञेया स्थूला सूक्ष्मा च मध्यमा। तद्दण्डमृतुमात्रं वा विष्कम्भं षड्यवं स्मृतम् ॥ ५३ ॥ मुखे पुच्छे तदष्टांशमष्टाश्रं वाथ वर्तुलम् । कृत्वाने विन्यसेच्छकुं शौडमर्धाङ्गुलोन्नतम् ॥ ५४ ॥ यवाकारं च सुदृढं तत्र संयोजयेत् पुनः । स्थूलायां वत्सक!त्थमजोदरभवं परे ॥ ५५ ॥ चिक्रोडपुच्छजं सूक्ष्मायामरोमं तृणाग्रकम् । तन्तुना लाक्षया वाथ दण्डाग्रकृतशङ्कुषु ॥ ५६ ॥ बध्नातु लेखनीः सम्यक् प्रतिवर्ण त्रिधा त्रिकाः। आकृत्या च त्रिधा स्थूला सूक्ष्मा मध्येति सा पुनः ॥ प्रत्येकं नवधा चैवं प्रतिवर्ण तु लेखनी । अथ मध्यमलेखन्या पीतवर्णरसेन तु ॥ ५८ ॥