________________
शिल्परले
[पूर्वभागः
वर्त्याकारास्तथायामे द्वित्र्यम्भोध्यङ्गुलात्मकाः ।
देवान् वा मनुजान् वापि मृगान् नागान् विहङ्गमान् ॥ ३७ ॥ लतावृक्षादिकान् वाथ नागान् वा सागरानपि । श्रोत्राभ्यां वाथ नेत्राभ्यां मनसा वाथ निश्चितान् ॥ ३८ ॥ आलिखेत् किट्टलेखिन्या सुमुहूर्ते सुलभ के
स्वस्थचित्तः सुखासीनः स्मृत्वा स्मृत्वा पुनः पुनः ॥ ३९ ॥ यत्र लेखा गता वामं तत्र तानू नववाससा । संमायं सम्यगालिख्य तत्तदाकारमुन्नयेत् ॥ ४० ॥ अथ दारू पीतवर्णान् गिरिनद्यादिसम्भवान् | आदाय शुद्धतोयेन संक्षाल्यादौ विचूर्णयेत् ॥ ४१ ॥ मन्दं किञ्चिच्छिलापृष्ठे पेषयित्वा विलोड्य च । शुद्धतोयैर्महापात्रे मुहूर्त प्रतिपालयेत् ॥ ४२ ॥ तदूर्ध्वाशं सारतोयमधः पङ्कविवर्जितम् । पात्रान्तरे विनिक्षिप्य पुनः कुर्यादमुं विधिम् ॥ ४३ ॥ एवं पुनः पुनः कृत्वा यावन्निर्मलता भवेत् । तत्सारं नवमृद्भाण्डे मन्दमालिप्य शोषयेत् ॥ ४४ ॥ ग्रीष्मातपेषु विधिवद् भूयो भूयो महामतिः । आलोड्य शुद्धतोयेषु शोषयेच्छुद्धिमच्छिक : (१) ॥ ४५ ॥ एवमेव समानीय रक्ते धातूनपि क्रमात् । निर्मलत्वे समुत्पन्ने शोषयेदेवमेव हि ॥ ४६ ॥ अथ तैलं समासिच्य वर्धमानेऽच्छवर्तिकाम् । विन्यस्य प्रज्वलद् दीपे घटमादाय मृन्मयम् ॥ ४७ ॥
२४८