________________
चित्रलक्षणम् ]
षट्चत्वारिंशोऽध्यायः ।
अथ वक्ष्यामि संक्षेपात् सर्वेषां वर्णलेपनम् । संस्कृतिं च विशेषेण तेषां योगं तथैव च ॥ २६ ॥ सितवर्ण पीतवर्णं रक्तवर्णे च कज्जलम् । एतानि शुद्धवर्णानि श्यामवर्ण तथैव च ॥ २७ ॥ सुधावलिप्तकुड्यादौ धवलं वर्णमालिपेत् । शङ्खशुक्त्यादिकं बाथ सितमृद्वाथ (?) चूर्णयेत् ॥ २८ ॥ कपित्थनिम्बनिर्यासतोयैरालोड्य बुद्धिमान् । मन्दमालेपयेद् भित्तौ फलके वा यथारुचि ॥ २९ ॥ शाकोटकत्वचा वाथ केतकीहस्ततोऽपि वा । यदा सुस्निग्धतां याति तदावृत्त्या विलेपयेत् ॥ ३० ॥ अथवौलूखले गर्ते सुधाचूर्णानि निक्षिपेत् । पिष्ट्वा पुनः पुनः सम्यङ्मुसलेन महामतिः ॥ ३१ ॥ केरबालफलोदेन सिक्त्वा तं पेषयेत् पुनः । तं पिष्टमुष्णतोयेन सम्यगालोड्य गालयेत् ॥ ३२ ॥ पुनः पूर्वोक्तमार्गेण सुधोपरि विलेपयेत् । इदं तु फलकादौ न शक्यं शक्यं मृदादिषु ॥ ३३ ॥ एवं धवलिते भित्तौ दर्पणोदरसन्निभे । फलकादौ पादौ वा चित्रलेखनमारभेत् ॥ ३४ ॥ पादौ फलकाद्युक्तमार्गमाश्रित्य लेखयेत् । पुराणलोष्टचूर्णेन शुष्कगोमयचूर्णकान् ॥ ३५ ॥ तुल्यशीतजलेनापि योजयेत पेषणीतले । पिष्ट्वा तेन विधायाशु शोषयेत् किट्टलेखनीम् || ३६ ||
२४७