________________
शिल्परत्ने
[पूर्वभागः लिपेत् कुड्यं ततश्चित्रं लेपयेदथवा पुनः । दग्ध्वा शङ्खादिकं काष्ठैश्चूर्णितं यत् सुधा हि सा ॥१५॥ + + चूर्ण + + चतुर्थांशमुद्गक्काथलवैः सह । गुलतोयेन संसिञ्चेत तच्चूर्ण वालुकान्वितम् ॥ १६ ॥ ++ + + प्रमाणं हि सुधातुर्याशमानतः। कालाग्निपक्ककदलीफलपिष्टं तु योजयेत् ॥ १७ ॥ तत्पिष्टस्य प्रमाणं हि सुधावेदांशकं स्मृतम् । द्रोण्यां क्षिप्त्वाथ सम्मर्थ गते मासत्रये पुनः ॥१८॥ पेषयेद् दृषदि क्षिप्त्वा दृषदा गुलवारिणा । नवनीतमिवायाति यावत् तावत् सुपेषयेत् ॥ १९ ॥ अथ कुड्यादिकं सम्यग् संशोध्य समतां नयेत् । नालिकेरत्वचामग्रैः सुसूक्ष्मं शिथिलीकृतैः॥ २०॥ पुनस्तद् गुलतोयेन सिक्त्वा नीत्वा दिनाल्पकम् । पश्चात् तत्र सुधापिष्टं तत्र दा विलेपयेत् ॥ २१॥ दाकारविशालादि सर्वमौचित्यभेदतः । लौही दारुमयी वाथ श्लक्ष्णपृष्ठा भवेदिह ॥२२॥ त:पृष्ठभागेन निम्नोन्नतविवर्जितम् । लिप्त्वा पिष्टसुधां सम्यमन्दं मन्दं पुनः क्रमात् ॥ २३॥ नालिकेरत्वचालिप्य शुद्धतोयसमन्वितम् । शुष्के तस्मिन् वर्णलेपं कुर्यात चित्रार्थमेव हि ॥ २४॥ फलकादौ तक्षणेन स्निग्धे वर्ण विलेपयेत् । सुधालेपो न कर्तव्यश्चित्रार्थ फलकादिषु ॥ २५॥