________________
२४५
चित्रलक्षणम् षट्चत्वारिंशोऽध्यायः ।
भित्त्यादौ लग्नभावेनाप्यर्ध यत्र प्रदृश्यते । तदर्धचित्रमित्युक्तं यत्तत तेषां विलेखनम् ॥ ४ ॥ चित्राभासमिति ख्यातं पूर्वैः शिल्पविशारदैः। चित्रं वाप्यथ चित्रार्ध मृदा वा सुधयापि वा ॥ ५ ॥ दारुणा शिलया वाथ लोहैरिष्टकयापि वा । तत्तद्रव्यैः प्रकुर्वीत यथादृष्टं यथाश्रुतम् ॥ ६ ॥ यथायुक्ति यथाशोभं नानावणैश्च भूषयेत् । सुधाभिः स्निग्धभित्त्यादौ युक्तवर्णैर्विलेखयेत् ॥ ७ ॥ चित्राभासं पुनस्तेषामेकमार्ग समाश्रयेत् । बहिरन्तश्च सर्वेषां यत्र युञ्जीत सर्वतः ॥ ८ ॥ सुमङ्गलकथोपेतं मन्त्रमूर्त्यादिसंयुतम् । सङ्ग्रामं मरणं दुःखं देवासुरकथास्त्वपि ॥ ९॥ नग्नं तपस्विलीलां च न कुर्यान्मानुषालये।। भित्त्यादौ तत्र लेख्यं स्याच्चित्रं चित्रतराकृति ॥ १०॥ स्वागमाखिलवेदादिपुराणोक्तकथान्वितम्। नानावर्णान्वितं रम्यं न न्यूनं नाधिकं क्वचित् ॥ ११ ॥ तत्र तत्रोचिताकाररसभावक्रियान्वितम् । चित्रं विचित्रफलदं भर्तुः कर्तुश्च सर्वदा ॥ १२ ॥ अतोऽन्यदशुभं चित्रं विपरीतफलप्रदम् । न लेखयेत् तन्न लिखेल्लोकद्वयसुवेच्छया ॥ १३ ॥ तस्मात् तत्प्रक्रियां वच्मि मन्दभावहिताय च। तत्रादौ सुधया पूर्वमुक्तया तत्क्रमेण च ॥ १४ ॥