________________
२४४ शिल्परत्ने
[पूर्वभागः नासिकासु स्वपक्षाणा शिखरे राजविभ्रमः । स्तूपिकाकुम्भवैरूप्ये तद्राष्ट्रजननाशनम् ॥ ७१ ॥ आस्थानद्वारसोपानं सर्वेषामशुभावहम् । आस्थानभित्तिकस्तम्भमशक्ताङ्गविरूपता ।। ७२ ।। अवोदितालङ्करणमन्यच्चानिष्टदुःखदम् । पूजोपचारविच्छेदो बलिच्छेदोऽप्यनिष्टकृत् ॥ ७३ ॥ सर्वाङ्गसुन्दरं तस्माद् धाम कुर्यात् सलक्षणम् । नाशदुःखं मृति पुष्टिं कुलवृद्धिं कुलक्षयम् ॥ ७४ ।। धनं सुखं च नैर्धन्यं कुर्यात पूर्वादिदिग्दरी ॥ ७४३ ॥
इति शिल्परत्ने सन्धिलक्षणं नाम
पञ्चचत्वारिंशोऽध्यायः ।
अथ षट्चत्वारिंशोऽध्यायः ।
अथ चित्रलक्षणम् । एवं सर्वविमानानि गोपुरादीनि वा पुनः । मनोहरतरं कुर्यान्नानाचित्रविचित्रितम् ॥ १ ॥ जङ्गमा वा स्थावरा वा ये सन्ति भुवनत्रये । तत्तत्स्वभावतस्तेषां करणं चित्रमुच्यते ॥ २ ॥ तच्चित्रं तु त्रिधा ज्ञेयं तस्य भेदोऽधुनोच्यते । सर्वाङ्गदृश्यकरणं चित्रमित्यभिधीयते ॥ ३ ॥