________________
२४३
सन्धिः ]
पञ्चचत्वारिंशोऽध्यायः। द्रव्यद्वयस्य त्वेकत्र सन्धिः स्यान्मल्ललीलकः।। त्रिद्रव्यैर्ब्रह्मराजाख्यो वेदैर्बाणैश्च वा पुनः ॥ ६१ ॥ सन्धिः स्याद् वेणुपाख्यः क्रमुकं तु रसैः स्वरै। अष्टाभिर्देवसन्धिः स्याद् रन्ध्रद्रव्यैस्तथैव च ॥६२ ॥ बहुसन्धिर्बहुद्रव्यैस्तथैव बहुसन्धिषु । बहुद्रव्यैर्यदि + + + + दण्डकसंज्ञितः ॥ ६३ ॥ चूलिकायां लुपानां वै सन्धिः स्यादर्धपाणिकः । कूटवंशादिभिस्तासां वेणुपर्वाभिधो भवेत् ॥ ६४ ।। अर्धपाणिविशेषोऽयं भिन्नसन्धिरिति स्मृतम् । पादोपरि भवेत् सन्धि व पादान्तरे कचित् ॥ ६५ ॥ ब्रह्मस्थलोवंगद्रव्यसन्धान विपदां पदम् । ब्रह्मस्थानस्थितः स्तम्भः स्वामिनं च विनाशयेत् ॥ ६६ ॥ तुलाद्युपरिगैर्द्रव्यैरतिदोषं न विद्यते । पुंस्त्रीनपुंसकमहीरुहसन्धिकार्ये
पुंसा च विहितमेव तथैव पुस्योः । नैवोभये न च नपुंसकसंगतिः स्या
जात्यैकया शुभदमुक्तमिति क्रमाहा ॥ ६७ ।। पैतामहादिशास्त्रेषु यथा दृष्टं पुरातनैः ॥ ६८ ॥ तथा तत्तत् प्रकुर्वीत सौख्यायुस्संपदृद्धये । अधिष्ठानस्य वैरूप्यं तत्सन्तानविनाशनम् ॥ १९ ॥ प्रत्यां स्त्रीणां विनाशं तु स्तम्भे नृपपराजयम् । प्रस्तरे द्विजनाशं स्यात् कण्ठे तु वणिजां क्षयम् ॥ ७० ॥