________________
२५८
शिल्परत्ने पूर्वभागे चित्रलक्षणम् ] + + + + + + + + + + + + + + + + । एवं हादिभित्त्यादौ लक्ष्यलक्षणसंयुतम् ॥ १४७ ॥
लेखनीयमिदं चित्रं सर्वदृष्टिमनोहरम् ॥ १४७३ ॥ इत्थं श्रीदेवनारायणमतिविवृतं शिल्परत्नाद्यभागं षट्चत्वारिंशदध्यायकयुतमतिमन्दात्मबोधप्रदं यत् । नानाग्रामादिदेवालयनरभवनाद्युक्तलक्ष्मप्रकाशं संपूर्ण जातमस्मिन् निखिलबुधजनाः सन्तु सन्तुष्टचित्ताः ॥
इति शिल्परले चित्रलक्षणं नाम
षट्चत्वारिंशोऽध्यायः ।। श्रीरामपुत्रेण भार्गवगोत्रसंभूतभूदेवेन श्रीकुमारनामधेयेन श्रीदेवनारयणराजचूडामणिपादसेवकेन
लिखितमिदम् ।
शिल्परत्नपूर्वभागः समाप्तः
शुभं भूयात् ।