________________
शिस्परने
पूर्वमागः स्तम्भानां स्तम्भमध्याादधस्सन्धानमुत्तमम् । खण्डानामूलखण्डस्य हासे सम्पद्विनाशनम् ॥ २९ ॥ कुम्भमण्ड्यादिवर्गाणां सन्धानं सम्पदां पदम् । शिलास्तम्भेषु सन्धानं यथायोगं समाचरेत् ॥३०॥ भिन्नसन्धौ विशेषेण कुर्यादाधेयमूर्ध्वतः । आधारमधरीकृत्य तद्भेदमधुनोच्यते ॥ ३१ ॥ भिन्नसन्धिरिति ख्यातो भुजाकोटिस्वरूपयोः । द्रव्ययोर्यः कोणसन्धिः स एव स्यान्न संशयः ॥ ३२ ॥ कीलादिभिर्विना यत्राप्यन्योन्यं कबलीकृतः । दक्षिणोत्तरगं दीर्घ दक्षिणोत्तरदीर्घतः ॥ ३३ ॥ के पूर्वापरगं दीर्घ पूर्वापरत आयते । आधारमायतद्रव्यं इस्वमाधेयमुच्यते ॥ ३४ ॥ यहा मुखपृष्ठगतद्रव्यमाधारमेव हि। । दक्षवामगतद्रव्यमाधेयश्च न संशयः ॥ ३५ ॥ यत्र यतस्तसंख्या स्याद् यत्र यद्योनिसम्भवः । तस्याङ्गित्वं बलिष्ठत्वमाधारत्वं च कल्पयेत् ॥ ३६ ॥ नन्द्यावर्तदलाकार नन्द्यावर्ताख्यसश्चयः । तत्र दक्षिणपार्श्वस्थद्रव्यनिर्गमपश्चिमे ॥ ३७ ॥ तथा पश्चिमपार्श्वस्थं निर्गम्योत्तरभागतः। द्रव्यमुत्तरपार्श्वस्थं तथा निर्गम्य पूर्वतः ॥ ३८ ॥ . पूर्वपार्श्वगतं द्रव्यं तद्वन्निर्गम्य दक्षिणे। एतत्क्रमेण सन्धानं नन्द्यावर्तमिति स्मृतम् ॥ ३९ ॥