________________
सन्धिः] "
पञ्चचत्वारिंशोऽध्यायः ।
अथैतद्वैपरीत्येन नन्द्यावर्त जगुः परे । भिन्नसन्धिषु तत्पृष्ठदीर्घ स्वव्यासतः समम् ॥ ४० ॥ अर्धे वा पादहीनं वा कुर्यात् पादमथापि वा । मेषयुद्धं त्रिखण्डं चेत् सौभद्रं चार्धपाणिकम् ॥ ४१ ॥ महावृत्तं च सन्धानं स्तम्भानां पञ्चधैव हि । मेषयुद्धं स्वस्तिकाभं सत्रिचूडं त्रिखण्डकम् ॥ ४२ ॥ सौभद्रमिति तत् प्रोक्तं पार्श्वप्राप्तचतुश्शिखम् । गृहीतधनमानार्ध छिन्नमूलाग्रयोर्मिथः ॥ ४३ ॥ निश्छिद्रमर्पितं प्रोक्तं सन्धिः स्यादर्धपाणिकम् । तस्यार्धे यद् वृत्ताशखं मध्ये तन्मानवृत्तकम् ॥ ४४ ॥ निर्वृत्ताकृतिनिष्पाद्यं महावृत्तमिति स्मृतम् ।
शिखं झषदन्तं च सूकरघ्राणमप्यथ ॥ ४५ ॥ सङ्कीर्णकीलं वज्रं च शयितानां पञ्चसन्धयः । अथार्धपाणिखण्डाभ्यां हलाकारास्तु षट् शिखाः ॥ ४६ ॥ समध्यस्थितकलिं च यत्र स्यात् षट्च्छिखं तु सः ।
दन्त जायमानतिर्यग्बहुशिखायुतः ॥ ४७ ॥ आधाराधेययोगेन सन्धिः सो यथाबलम् । सूकरघाणवद् योज्यं सूकरघ्राणसंज्ञितम् ॥ ४८ ॥ यथायुक्ति यथायोग्यं शूलैर्नानाविधैर्युतम् । सङ्कीर्णकीलसंज्ञं स्याद् वज्राभो वज्रचूडकः ॥ ४९ ॥ तत्तद्रव्यविशालेन समं वाध्यर्धमेव वा ।
व्यासार्धं वाथ पादोनं या तद्रव्यस्य विस्तृतिः ॥ ५० ॥
Lili
२४१