________________
सन्धिः पञ्चचत्वारिंशोऽध्यायः ।
- २३९ वास्तुमध्ये ततो द्वारे देवांशेष्वपि कर्णयोः। दिग्विदिङ्मध्यभागे च स्तम्भमध्ये विशेषतः ॥ १८ ॥ प्रतिसन्धेस्तु मध्ये वा सन्धिकार्य न शोभनम् । अर्काविरुणेन्दूनां स्थानं दिगिति कीर्तितम् ॥ १९ ॥ अग्निराक्षसवाय्वीशस्थानं विदिगिति स्मृतम् । इन्द्रो ग्रहक्षतस्तद्वत् पुष्पदन्तस्तथैव च । २० ॥ फल्लाटश्चेति ये तेषां स्थानं द्वारमिति स्मृतम् । तत्र सन्धिर्न कर्तव्यः सर्वथा सर्ववेश्मसु ॥ २१॥ आद्यगादुन्नतार्थ यत् सन्धानं यत्र रोचते । तत्र जन्मादिवर्गाणामन्ते कुर्यान्न मध्यतः॥२२॥ अधोमूलं चोर्ध्वकेशमाधाराधेयसन्धिषु ।। अन्तर्मुलं बहिश्चागं पार्श्वद्रव्ये स्थितेऽपि च ॥ २३ ॥ अदीर्घदीर्घद्रव्याभ्यां सन्धानं सम्पदा पदम्। समाभ्यां नैव सन्धानं कारयेन्मतिमानतः ॥२४॥ चतुर्दिक्षु बहिः स्थित्वा निरीक्षेत् स्थपतिहम् । तदा ह्रस्वं यथा वामे दीर्घद्रव्यं तु दक्षिणे ॥ २५ ॥ तथा सुधीर्विधातव्यः पुनश्च पुनरेव च । अथवान्तर्गतः स्थित्वा स्थपतिर्वीक्ष्य तद् गृहम् ॥ २६ ॥ विज्ञाय दक्षिणं वामं दीर्घ हूस्वं च विन्यसेत् । द्रव्यत्रयकृते सन्धौ समपातत्रयं पुनः ॥ २७ ॥ मध्यद्रव्यं यथा दीर्घ इस्वद्रव्यौ तु पार्श्वयोः । तत्क्रमेण यथापूर्वमुक्तं तद्वन्न्यसेत् तु वा ॥२८॥