________________
शिल्परने
लुपास्तम्भादि सर्वेषां स्थितानामग्रमूर्ध्वतः । बालकूटादिभूषाणामघोग्रं नात्र संशयः ॥ ७ ॥ तत्रापि पद्महाख्यविमानस्य विशेषतः । कूटस्य च लुपानां च मूलमूर्खेति शुश्रुमः ॥ ८ ॥ अन्तर्भागोऽन्तरे कार्यों बहिर्भागो बहिस्तथा । द्रव्याणां पार्श्वसंज्ञानामन्यैः प्रोक्तानि तद् यथा ॥ ९ ॥ अपिधानाख्यफलकं यथावेधपदं न्यसेत् । शिलां शिलाभिः सन्दध्यादिष्टकाभिस्तथेष्टकाम् ॥ १० ॥ दारुभिर्दारुमेवेह लोहं लोहेन सन्धयेत् । स्वजातिभिः स्वजातिं तु सन्दध्यान्न विजातिभिः ॥ ११ ॥ नवद्रव्यं नवेनैव पुराणं तु पुरातनैः ।
जीर्ण जीर्णेन सन्दध्यात् त्वक्सारैस्त्वचिसारकम् ॥ १२ ॥ जात्या विप्रेण विप्रं च क्षत्रियैः क्षत्रियं तथा । विशं विशान्त्यमन्त्येन शूद्रेणान्यं न सन्धयत् ॥ १३ ॥ पुरुषद्रव्यसन्धानं पुरुषेण सुशोभनम् । स्त्रियं चेत् संदधेत् स्त्रीभिः षण्डं षण्डेन सन्दधेत् ॥ १४ ॥ पुंस्त्रियोर्द्रव्ययोः सन्धिरविरोध इति स्मृतः । मूलं मूलेन सन्दध्यादग्रमग्रेण योजयेत् ॥ १५ ॥ मूलाग्रद्रव्ययोगेन सन्धानं सम्पदां पदम् । - मूलं मूलेन नैर्ऋत्यामग्रेणाग्रं तु शूलिनि ॥ १६ ॥ योगः स्यादयमूलाभ्यामन्ययोर्भिन्नसन्धिषु डाटा के गेहे कचिदेवं भवत्यपि ॥ १७
२३८
पूर्वभागः