________________
सन्धिः] पन्चचत्वारिंशोऽध्यायः ।
अथवा सर्वदेवानां वेणुना क्रमुकेण वा। कुर्यादने ध्वजं तत्तद्योग्यायामसमन्वितम् ॥ २७ ॥ अप्रधानध्वजस्तम्भा वैणवाः स्युस्तथाखिले। तद्विमानोत्तरायामतुल्यायामाः प्रकीर्तिताः ॥ २८ ॥
इति शिल्परत्ने ध्वजलक्षणकथनं नाम
चतुश्चत्वारिंशोऽध्यायः ।
अथ पञ्चचत्वारिंशोऽध्यायः ।
अथ सन्धिः । द्रव्याणां दारुमुख्यानां बलायामादिसिद्धये । स्थितानां शयितानां च सन्धिकर्म निगद्यते ॥१॥ बाह्यान्तं द्रव्ययोगेन यत्तत् स्यात् पार्श्वसन्धिकम् । अथोर्ध्वद्रव्यसंयोगादाधाराधेयभागतः॥ २ ॥ दार्विष्टकाशिलादीनि तत्तद्व्याणि सर्वशः। . पूर्वाग्रमुत्तराग्रं तु विन्यसेन्नान्यथा कचित् ॥ ३ ॥ नासीगतोत्तरादीनि भूषणावयवानि तु । अग्रनिष्क्रमणन्यायाद् विन्यसेन्नैव दिग्वशात् ॥ ४ ॥ प्रादक्षिण्यवशादग्रं कुर्याद् वित्तविमानके । मूलप्रदक्षिणत्वेन विन्यासोऽप्यत्र दृश्यते ॥ ५ ॥ षडाष्टाश्रकादीनां दिग्गतानां तु दिग्वशात् । कुर्यादग्रं परेषां तु प्रादक्षिण्यक्रमेण तु ॥६॥