________________
[पूर्वभागः
२३६
शिरुपरस्ने प्रतिष्ठाप्य ध्वजस्योर्चे गरुडं वैष्णवे गृहे। गगने गमनारूढं पक्षविक्षेपणान्वितम् ॥ १६ ॥ कुञ्चितं वामपादं तु दक्षिणं पृष्ठतः स्थितम् । किश्चिदायतवृत्ताक्षं नीलनासाग्रमेव च ॥ १७ ॥ शान्तं च हसितं देवं मकुटादिविराजितम् । तप्तकाञ्चनवर्णाभं कपिलाक्षं बृहद्भुजम् ॥ १८ ॥ हृदये वन्दितकरं भक्त्या दादिकल्पितम् । द्वारोच्चमानहस्ते तु स्थापयेद् ध्वजमुत्तमम् ॥ १९ ॥ बलिपीठस्य बाह्ये तु ध्वजस्थान विधीयते । देवदारुश्च खदिरोऽरिष्टं क्रमुकमेव च ॥ २० ॥ वेणुर्वा नालिकेरो वा वृक्षः स्याद् ध्वजदण्डके । द्वारोत्सेधसमोत्तुङ्गः कुट्टिमं तत्समं तु वा ॥ २१ ॥ सपादं वार्धपादोन + + + द्विगुणं तु वा । द्विगुणं वास्य विस्तारमाकृत्याद्यङ्गवत् स्मृतम् ॥ २२ ॥ मञ्चकं पादबन्धं वा सोपपीठमथापि वा । अथवान्यप्रकारेण ध्वजपीठं प्रकल्पयेत् ॥ २३ ॥ एकहस्तं समुत्सेधं मेखलात्रितयान्वितम् । तुङ्गे षडंशिते भागं मेखलाद्यागलं त्रिभिः ॥ २४ ॥ तदूर्ध्वमेखला चैकेनान्त्या च स्यात् तथांशतः । अधोभागेन वा कुर्यान्मेखलात्रितयं पुनः ॥ २५ ॥ तत्कुट्टिमं तु तुर्यश्रं तत्तुङ्गस्य त्रिभागतः । तदूर्ध्वपमं तत्कर्णिकायाः स्यान्निर्गतो ध्वजः ॥ २६ ॥