________________
जलक्षणम् ] चतुश्चत्वारिंशोऽध्यायः । द्वाराणां दशभिश्च सप्तदशभिः पञ्चत्रिकैरुच्छ्रयं विंशद्भिर्निजबाहदण्डसहितं वेद्यन्वितं च ध्वजम् ॥ ६ ॥
शततालसमायामं ध्वजदण्डं करोतु वा । अशीतितालमानं वा प्रासादोच्छ्रयमेव वा ॥ ७ ॥ गोपुरोत्सेधमानं वा भेदच्छेदविवर्जितम् । अपनोडवणं स्निग्धं ग्रन्थिरन्धविवर्जितम् ॥ ८ ॥ एवं लक्षणसंयुक्तं ध्वजदण्डमिहोच्यते । पचहस्तप्रमाणं वा सप्तहस्तमथापि वा ॥ ९ ॥ नवद्वादशहस्तं वा कुर्याद् दण्डानुसारतः । ध्वजयष्टिं ध्वजस्याग्रान्नीत्वाधोद्वारमान कम् ॥ १० ॥ संस्थाप्य सम्मुखमदक्षिणपार्श्वलम्बि
घण्टास्रगुज्ज्वलपताकमभीष्टपीठे ।
तत्केतुदण्डमभिक्लृप्तमनुप्रतिष्ठं
२३५
सम्भाव्य साध्वभिमृशन् प्रजपेद् ध्रुवाणुम् ॥ ११ ॥ सुषिरत्रयसंयुक्तं वामभागे सुयोजयेत् ।
सुषिरस्य प्रमाणं हि प्रतिमाकारमानतः ॥ १२ ॥ घण्टापताकामालादिबन्धनार्थमिदं स्मृतम् । पटस्य लक्षणं मध्ये ध्वजदण्ड ( स ) मायतम् ॥ १३ ॥ अथवा हस्तमानं वा तदायामदलं ततः । दुकूलपट्टे देवाङ्कं चित्रक्षौममथापि वा ॥ १४ ॥ अथ कार्पासकृतं वापि पटं कुर्यात् सलक्षणम् । चित्रितं कारयेच्छत्रध्वजचामरकादिभिः ॥ १५ ॥