SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २६४ शिल्परले पूर्वमागः पूजितं सर्वदेवेषु श्रीकरं बलिविष्टरम् । पीठानि तत्पार्षदानामष्टकानि यथोचितम् ॥ ७६ ॥ इन्द्रादिदिक्षु कर्तव्यान्यन्यपीठोक्तवर्मना। स्वपादुका बहिष्ठानि तले वा तत्र युक्तितः ॥ ७७॥ उपपीठोपरिष्टाद् वा कारयेद् बुद्धिमत्तमः ॥ ७७१ ।। इति शिल्परले बलिपीठलक्षणं नाम त्रिचत्वारिंशोऽध्यायः । अथ चतुश्चत्वारिंशोऽध्यायः। __अथ ध्वजलक्षणम् । मध्यहारादिमर्यादापर्यन्तस्थानतस्तथा । बलिपीठाद् बहिः कार्य ध्वजस्तम्भं च लक्षणैः ।। १ ॥ शिलया दारुणा वाथ वृत्ताकारमथापि वा। षोडशानं तु वाष्टानं कुम्भमध्यादिसंयुतम् ॥ २ ॥ फलकोपरि विन्यस्येत् स्वस्ववाहनविग्रहम् । जन्मादिस्तूपिपर्यन्तविमानोच्छ्रयमानतः ॥ ३ ॥ शक्तिस्तम्भसमुत्सेधमध पादोनमेव वा। तत्समं द्विगुणं वाथ कुर्यात् क्षुद्राल्पभेदतः ॥ ४ ॥ प्रासादमानत्रिगुणं चतुर्गुणमथापि वा । प्रासादादग्रतो नीत्वा स्थाप्यः पश्चगुणं तु वा ।। ५ ।। द्वारोच्चाग्धिरसा(ट)तुङ्गबहलं तस्मात् कृशं हासितं द्वारद्वादशकं विमुच्य पुरतः प्रासादतः स्थापयेत् ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy