________________
बलिपीठलक्षणम् ] त्रिचत्वारिंशोऽध्यायः ।
पादुकं सार्धभागेन ततः कुर्याद् यथाक्रमम् । वप्रं कुम्भं प्रस्तरं च वेदिकां गलमेव च ॥१५॥ प्रत्येकं चतुरंशैस्तु सवलभ्युत्तरं त्रिभिः ।। कपोतोच्चं चतुर्भागैः पद्मपट्टि दलांशतः।। ६६ ॥ त्रिभागेनाम्बुजं कुर्यात् पीठे साधारणाभिधे। तुङ्गेऽष्टांशे सार्धवेदैरशैस्तारमुदाहृतम् ॥ १७ ॥ त्रयस्त्रिंशदंशे तुङ्गे तु द्वाभ्यां पादुकमाचरेत् । वनादि तत्कपोतान्तं यथा साधारणे तथा ॥ १८ ॥ अंशेन पद्मपट्टे तु त्रिभिरम्बुजमानकम् । कारयेन्मतिमानत्र श्रीकेशे बलिविष्टरे ॥ ६९ ॥ तुङ्गे सप्तांशके तारं सार्धवेदांशभागतः। चतुर्विंशांशिते तुङ्गेऽप्येकांशं पादुकं विदुः ॥ ७० ॥ जगत्यादिकपोतान्तं त्रित्रिभागैः पृथक् पृथक् । पट्टमर्धेन पद्मं तु कुर्यादयधमानकम् ॥ ७१॥ श्रीवज्रमिति विख्यातं बलिपीठमिदं त्वपि । सप्तांशपञ्चकं तारं तुङ्गे नक्षत्रभाजिते ॥ ७२ ॥ अध्यध पादुकं विद्याद् वप्रं सार्धाब्धिभागतः । कैरवोच्चं तु वेदांशैः प्रस्तरं तु त्रिभागतः ॥ ७३ ॥ तत्सम वेदिकामानं व्यंशाध कन्धरोच्छ्यम् । सार्धद्विभागमानेन भूतमालान्वितोत्तरम् ॥ ७४ ॥ कपोतं तत्समं कुर्यात् पद्मपट्टे दलांशतः। अम्बुजोच्चं हिभागेन सर्वालङ्कारसंयुतम् ॥ ७५ ॥
FF