________________
शिस्परत्ने
[ पूर्वभाग:
तुङ्गेन नवपञ्चांशं कुर्यात् पीठस्य विस्तृतम् । सप्तत्रिंशत्कृते तु द्विभागं पादुकं विदुः ॥ ५४ ॥ पश्चांशं जगतेरुचं चतुरंशं तु कैरवम् । तथैव प्रस्तरं वेदिकोचं चैव तथैव च ॥ ५५ ॥ पञ्चांशं तु गलं वेदभागं वलभिकोत्तरम् । तत्समं तु कपोतोच्चं पद्मपट्टमिलांशकम् ॥ ५६ ॥ पद्मतुङ्गं तु वेदांशमिदं श्रीविजयाभिधम् । तुङ्गसप्तांशवेदांशपीटतारमुदाहृतम् ॥ ५७ ॥ एकोनत्रिंशता तुझे कृते पादुकमंशतः । चतुरंशैर्जगत्युच्चं कुमुदं तु त्रिभागतः ॥ ५८ ॥ प्रस्तरं वेदिकोत्सेधं त्रित्रिभागैरुदाहृतम् । गलमानं चतुर्भागं सवलभ्युत्तरं त्रिभिः ॥ ५९ ॥ कपोतोच्चं युगांशं तु पट्टमशतस्तथा । पद्मतुङ्गं त्रिभिर्भागैः श्रीच्छन्दं तत् प्रकीर्तितम् ॥ ६० ॥ तुङ्गपश्चांशरामांशं विस्तारं तुङ्गमानके । त्रयस्त्रिंशविभागे तु द्विभागं पादुकोन्नतम् ॥ ६१ ॥ चतुर्भिर्जगतीं कुर्यात् त्रिभागं कुमुदोन्नतम् | प्रस्तरं तत्समं कुर्यात् त्रिभागं वेदिकोन्नतम् ॥ ६२ ॥ गलमानं तु वेदांशं सवलभ्युत्तरं त्रिभिः । कपोतोच्छ्रयमब्ध्यंशं पट्टमर्धेन कारयेत् ॥ ६३ ॥ पङ्कजोच्चं त्रिभागा श्रीरुद्रविजयाभिधे । तुङ्गाधं विस्तृतं कुर्यात् तुङ्गे द्वात्रिंशधा कृते ॥ ६४ ॥
२३१