________________
बलिपीठलक्षणम् ]
त्रिचत्वारिंशोऽध्यायः ।
तु दन्तविभक्ते तु पादुकं सार्धभागतः । सार्धबाणैर्जगत्युच्चं पञ्चांशं कुमुदोन्नतम् ॥ ४३ ॥ एकांशं पट्टिकोत्सेधमन्तरीं च शिवांशतः | प्रत्युत्सेधं द्विभागेन वेदैस्तद्वेदिकोन्नतम् ॥ ४४ ॥ ग्रीवोच्च तत्समं कुर्यात् सपादांशकमुत्तरम् | तत्समं तु वलभ्युच्चं सार्धयंशं कपोतकम् ॥ ४५ ॥ आलिङ्गपट्टमर्धेन शार्ध पङ्कजोन्नतम् । सिंहव्यालादिसंयुक्तं प्रस्तरं कारयेत् पुनः ॥ ४६ ॥ प्रतेर्मुखं च कर्तव्यं कपोते नासिकाष्टकम् । कपोतदैर्घ्यदिग्भागं नासिकाया विशालकम् ॥ ४७ ॥ सद्वारं वाथ विद्वारं श्रीभद्रमिति कीर्तितम् | उत्सेधदशसप्तांशं बलिपीठस्य विस्तृतम् ॥ ४८ ॥ पञ्चत्रिंशांशके तुड़े द्वाभ्यां पादुकमाचरेत् । षडंशं जगतेरुचं पञ्चांशं कुमुदोन्नतम् ॥ ४९ ॥ चतुर्भागं प्रस्तरोचं सिंहाचैस्तत्र भूषयेत् । वेदिकच्चं चतुर्भागैः कृतशैवलकादिकम् ॥ ५० ॥ गलं वेदांशकं व्यर्ध वलभ्यन्वितमुत्तरम् । बलभौ भूतहंसाद्यैर्भूषयेत् सुमनोहरम् ॥ ५१ ॥ कपोतोच्चं त्रिभागं तु मुक्तादामादिभूषितम् । विशेषादष्टनासाढ्यामधशेनाब्जपट्टिकाम् ॥ ५२ ॥ सार्धद्विभागं पद्मोच्चं चतुर्द्वारसमन्वितम् । पञ्जरादिसमायुक्तं सर्वतोभद्रनामकम् ॥ ५३ ॥
२३१