________________
कविधानम्] एकचत्वारिंशोऽध्यायः। ११५ त्रिकराद् रुद्रहस्तान्तमधमादित्रयं त्रयम् । सर्वसाले सर्वहम्ये विस्तारं परिकल्पयेत् ॥ १५ ॥ महत्तरे तु श्रेष्ठानि मध्यमे मध्यमत्रयम् । क्षुद्राल्पयोः प्रशस्तं हि कन्यसत्रयगोपुरम् ॥ १५ ॥ अथवा पञ्चहस्तादि द्विद्विहस्तविवर्धनात् । त्रयोदशकरान्तं तु शोभाव्यासं तु पञ्चधा ॥ १७ ॥ तिथिहस्तं समारभ्य त्रयोविंशत्करावधि । दारशालाविशालं तु पञ्चधा परिकीर्तितम् ॥ १८ ॥ पञ्चविंशत्कराद् यावत्रयस्त्रिंशत्करं तथा । द्वारप्रासादविस्तारं पञ्चधा परिकल्पयेत् ॥ १९ ॥ पञ्चत्रिंशत्कराद् यावचिचत्वारिंशतिस्तथा । . . द्वारहर्म्यस्य विस्तारं पञ्चधैवं समाचरेत् ॥ २० ॥ पञ्चचत्वारिंशदादि त्रिपञ्चाशत्करान्तकम् । द्विद्विहस्तविवृद्धया तु पञ्चधा गोपुरे ततिः ॥ २१ ॥ गोपुराणां तु विस्तारमित्येवं बहुधोदितम् । विस्तारेणायतं कुर्याद् गोपुराणां विशेषतः ॥२२॥ सपादं वाथ साध वा पादोनद्विगुणं तु वा । सत्रिभागैकभागं वा सत्रिभागत्रिभागिकम् ॥ २३ ॥ द्विगुणं वा प्रकर्तव्यं विस्तारात् सर्वगोपुरे । हस्तमानेन विस्तारं यदि तत्र विशेषतः ॥ २४ ॥ आयाममुक्तवत् कार्य ह(स्त)च्छेदं विना बुधैः । प्रवृस्या वात्र हान्या वा करोतु करपूर्णताम् ॥ २५ ॥