________________
११६
शिवपरने
आयादिशोभनोपेतं कारयेत करमानके । विस्तारं सप्तधाभज्य शोभोच्चं रुद्रभागतः ॥ २६ ॥ तारादर्धाधिकं तु द्वारशालाख्यगोपुरे । सप्तभागे तु रुद्रांशं भान्वंशं (तु) तृतीयके ॥ २७ ॥ विस्तारे नवभक्ते तु मन्वंशं तुङ्गमन्यके | विस्तारद्विगुणोत्सेधं कल्पयेद् द्वारगोपुरे ॥ २८ ॥ विस्तारायामयोर्मान सूत्रं बाह्ये विधीयते । जन्मतः स्तूपिकान्तं स्यादुत्सेधं गोपुरेऽखिले ॥ २९ ॥ अथवा तारमानेन तुङ्गमेवं करोत्वथ । सप्तांशे रुद्रभागं वा षडंशं चतुरंशके ॥ ३० ॥ पञ्चाशे सप्तभागं वा सप्तांशं वेदभागिके । नवभागं तु पञ्चांशे द्विगुणं वाखिलोन्नतम् ॥ ३१ ॥ विस्तारस्य त्रिभाकं चतुर्भागैकभागिकम् । पञ्चभागद्विभागं वा गोपुराणां तु निर्गतिः ॥ ३२ ॥ सप्तकुड्यस्य बाह्ये तु द्वारतारमथोच्यते । मूलात् सार्धं सत्रिपादमथवा हस्तमानतः ॥ ३३ ॥ सार्धहस्तं समारभ्य षडङ्गुलविवर्धनात् । पञ्चहस्तावधिवत् क्षुद्राणां द्वारविस्तृतिः ॥ ३४ ॥
-
[पूर्वभागः
त्रिहस्तं तु समारभ्य यावत्सप्तकरावधि । षडङ्गुलविवृद्धयां तु मध्यमद्वारविस्तृतम् ॥ ३५ ॥ चतुर्हस्तं समारभ्य यावन्नवकरं ततिः । रसमात्रविवृद्धया तु महतेर्द्वारविस्तृतम् ॥ ३५ ॥