________________
शिम्परने त्रिवेदसायकतलं द्वारप्रासादकं तथा । हाख्यगोपुरं वेदपञ्चषट्तलमाचरेत् ॥ ४ ॥ द्वारगोपुरकं कुर्यात् पञ्चषट्सप्तभूमिकम् । अन्तर्मण्डलके द्वारशोभाख्यं स्यात् ततः क्रमात् ॥ ५ ॥ द्वारशालादयः कार्या अन्तर्हारादिकेष्वपि । अथवा सर्वसालेषु द्वारशोभादयस्तु वा ॥ ६ ॥ सोपाठमधिष्ठानं विना वात्रोपपीठकम् ।.. मूलप्रासादविस्तारे सप्ताष्टनवभाजिते ॥ ७ ॥ दशैकादशभक्ते वाप्येकांशरहितं ततम् । शोभादिगोपुरान्तानां मध्यमं विपुलं त्विदम् ॥ ८॥ मूलालयविशाले तु चतुष्पञ्चषडंशिते । सप्ताष्टांशेऽशहीनं तु विकल्पाभासयोस्ततिः ॥ ९॥ मुलतारत्रिभागैकमध भां परिकल्पयेत् ।। त्रिभागं चतुरंशे तु गुणांशे द्वितयं तु वा ॥१०॥ पञ्चभागे तु वेदांशं जातिच्छन्दाख्ययोस्ततम् । द्विहस्तादिद्विरष्टान्तमेकहस्तविवर्धनात् ॥ ११ ॥ शोभादीनां तु विस्तारं विकल्पाभासयोर्मतम् । गुणहस्तं समारभ्य एकहस्तविवर्धनात् ॥ १२ ॥ सथा सप्तदशान्तं स्याच्छन्दहम्ये विशालकम् । चतुर्हस्तं समारभ्याथाष्टादशकरावधि ॥ १३ ॥ शोभादिगोपुरान्तानां जातिहर्ये विशालकम् । इस्तमानेन विस्तारमेवं वा परिकल्पयेत् ॥ १५ ॥